पृष्ठम्:तपतीसंवरणम्.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे सखे ! नलिनीपलाशपवनैः सन्धुक्षितः स्मरवह्निः । तद् विरम मुहूर्तम् । विदूषकः - (क) बाहं (विरमति) १०२ (ततः प्रविशत्यम्बरयानेन नायिका मेनका च ) नायिका - (दीर्घ निःश्वस्य) (ख) सहि ! किं संपत्ता हत्थिणउर- समीवं । मेनकां-- (सविषादमात्मगतम्) (ग) कदाणु खु पिअसहिं उवसन्त- (क) बाढम् । (ख) सखि ! किं सम्प्राप्ते स्वो हस्तिनपुरसमीपम् । (ग) कदानु खलु प्रियसखीमुपशान्तमदनोन्मादां द्रक्ष्यामि । सखि ! किं तत्रा- स्माकं प्रयोजनम् । च स्फुरति । एवं त्वद्धृदयसंवादिनि लक्षणे (नि ? सि)द्धे पतितमेवेत्यवधारणं युक्तमेव ॥ ७ ॥ एवं सङ्कल्पेन कामिनी प्रति सरसं संवादमवलम्बमानः सङ्कल्प- परम्परापरिम्लानचित्तः सन्तापमसहमान आह - सखे ! इत्यादि । विरुद्धकार्योत्प- त्तिरत्र फलिता । सन्तापशमनार्थ नलिनीपलाशपवनोऽभ्यर्थितः, तेन मदनानलस- न्धुक्षणं कृतम् । तद् विरम || एवं तस्योन्मादावस्थां प्रतिपाद्य नायिकाप्रवृत्तिमाह । अथ नायिका नारद- मुखादाकर्णितगुणगणे मरतकशिलासन्निधौ नयनानन्दीकृते नरपतौ निरन्तरप्रवर्ध- मानमनुरागमवलम्बमाना तत्सिद्धये वामनमाराधयन्ती साध्यालाभेन देहत्यागोद्यता सखीभ्यामाश्वास्य स्वभवनं प्रापिता अनन्यपरतया रणरणिकाचिन्तासन्तापजागरप- रिक्षीणा तद्वृत्तान्तपरिज्ञानाय रम्भां नियुज्य तपनवनं गन्तुं मेनकया सह नभसा प्रस्थिता व्याक्षिप्तचित्ततया प्रस्तुतं विस्मृत्य दयितदर्शनस्थानतया सुभगं नगरं पृच्छति – किमित्यादि । पुरस्वामिनि सदा लग्नचित्ता तदनुबन्धिान सर्वत्र प्र- (स्मृ? सृ)तमनोवृत्तिः कान्तचिन्तानुसारेण पुरं पृच्छति ॥ तदाकर्ण्य विषण्णा मेनका निरूपयति — कदानु खल्विति । खल्विति विचारे । तेन चिरकालारब्धत्वेन दुस्सहता प्रकाश्यते । अत एवोपशान्तमदनो- १. ' का आत्म' इति ख. पाठः,