पृष्ठम्:तपतीसंवरणम्.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । १०३ मअणुम्मादं दक्खिस्सं । (प्रकाशम्) सहि! किं तत्थ अह्माणं पओअणं । नायिका --- (सविलक्षमात्मगतम्) (क) हं किं मए मन्तिदं । (प्रकाशम् ) सहि ! रमणिज्जो खु कत्तिएआवासपरिसरारामो । मेनका --- (ख) सहि ! अज्ज अण्णहिं सो । नायिका--- (ग) कीस असम्बद्धं मन्तेसि । (क) हं किं मया मन्त्रितम् । सखि ! रमणीयः खलु कार्त्तिकेयावासपारिसरारामः । (ख) सखि ! अद्यान्यस्मिन् सः । (ग) कस्मादसम्बद्धं मन्त्रयसे । न्मादामित्युक्तम् | उन्मादेन वक्तव्यं न जानाति । कथितं न स्मरति । उक्तं न शृणोति । श्रुतं नावधारयति । पुरोगतं न पश्यति । परोक्षं दृष्टवद् वदति । स्वैर्- क्रीडां विस्मरति । अनुनयं न गृह्णाति । कर्तव्यान्तरमुपेक्षते । किं बहुना देशकालौ न जानाति । एवम्भूतां प्रियसखीं कदाचिदप्यनुपेक्षणीयां कदानु प्रकृतिस्थां द्र- क्ष्यामि । सर्वथा नानुसरामि । तेन वर्धत एव । तदुक्तमाक्षिप्य कथयामीति नि- रूप्याह - किं तत्रेत्यादि । तत्र मनुष्याधिपपुरे । अस्माकं देवतानां किं प्रयोज- नम् । प्रयोजनं विना प्रश्नोऽपि न घटते, अन्यथानवस्थानात् ॥ - - इति तस्या आक्षेपवचनं श्रुत्वा सहसात्मनोक्तमघटमानं निरूप्य स- लज्जं विमृशति – किं मया मन्त्रितमिति । निजवचनमघटमानं मत्वोपपत्ति- मुद्भाव्य कथयति – रमणीयः खल्विति । तवाप्यनुभवसिद्धोऽयमिति प्रकाशयति – कार्त्तिकेयावासपरिसराराम इति । देवालयसन्निधिना रम्यतया चारामे पक्षपातः । तमन्तर्निधाय तदाश्रयस्य पुरस्य समीपागमनं पृष्टम् ॥ - इति तस्याः समाधानभणितिं श्रुत्वा निपुणा मेनका चक्रोक्त्यैतदभि- प्रायं प्रकाशयितुमाह - अन्यस्मिन् सः । त्वया विवक्षित आरामः अद्यान्यत्र । आरामव्यपदेशेन नृप एव त्वया विवक्षितः, स इदानीं न तत्रेत्यभिप्रायमाच्छा- द्योक्तिः ॥ ऋजुतया तदभिप्रायमविदित्वा तदुक्तमाक्षिपति – कस्मादिति । आराम इदानीमन्यस्मिन्नित्यसम्बद्धं त्वया कथितम् || १. 'अ' इति क. पाठ..