पृष्ठम्:तपतीसंवरणम्.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ तपतीसंवरणे मेनका - (सस्मितम्) (क) जाणिज्जई एव्व एदं, को वा एत्थ असं- S वद्धं मन्तेदि त्ति । नायिका -- (ख) उम्मत्तिए ! किं सो जङ्गमो । मेनका --- (ग) आम जङ्गमो । नायिका - (घ) को दे अभिप्पाओ । मेनका --- (ङ) जो दे हिअअगओ। (क) ज्ञायत एवैतत्, का वात्रासम्बद्धं मन्त्रयत इति । (ख) उन्मत्तिके! किं स जङ्गमः । (ग) आम जङ्गमः । (घ) कस्तेऽभिप्रायः । (ङ) यस्ते हृदयगतः । - तदाक्षिपति - ज्ञायत एवैतत् का वात्रासम्बन्धं मन्त्रयत इति ज्ञायते त- टस्थैः । यदि तटस्थः श्रोता तेनैव ज्ञातुं शक्यं का वासम्बन्धवादिनीति । आवयोर्विवाद एव । प्रकृतं विस्मृत्यान्यथा व्याहरन्ती त्वमेवासम्बन्धवादिनीत्य- भिप्रायः ॥ तमजानाना पूर्वोक्तेऽनुपपत्तिमुद्भाव्य तस्या असम्बन्धवादिनत्वं साधयति– उम्मत्तिए इति । उन्मत्तैव त्वम् । तदेव स्फुटयति- • किं स जङ्गम इति । आरा- मस्यान्यदेशस्थितिः कथम् । किं स जङ्गमः । जङ्गमानामेव देशान्तरप्राप्तिर्घटते ॥ असङ्गतत्वेन पृष्टं विशेषविवक्षयानुवदति – आम जङ्गमः । त्वया विव- क्षितो जङ्गमः । आमेत्यनुवादे ॥ - एवमुक्ते स्थावरस्य जङ्गमत्वकथनं साक्षान्न घटत इत्यभिप्रायं पृच्छति - कस्तेऽभिप्रायः । त्वदुक्तेर्वाच्यनिरूपणे ममानुप (पत्ति )र्न शान्ता ॥ तदभिप्रायेण परिहारं स्फुटीकर्तुमभिप्रायमप्यन्यत्र सङ्क्रमय्योत्तरमाह - यस्ते हृदयगत इति । आवयोरेक एवाभिप्रायः । तत्र त्वयाभिप्रायमाच्छाद्यान्यथा कथितं, त (देव) मयाङ्गीकृत्य कथितमित्येव विशेषः ॥ १. ‘इ एदम्' इति क. पाठः. २. ' का ए' इति क-ख-ग. पाठः.