पृष्ठम्:तपतीसंवरणम्.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । नायिका -- (क) को मे हिअअगओ । मेनकां-- (सस्मितम्) (ख) महाराअसंवरणो । १०५ नायिकों-- (सरोषम्) (ग) अण्णगअमणोरहं तं जणमुद्दिसिअ कीस मं विडम्बेसि । मेनका --- (घ) तुह हिअअं एव्व जाणइ अहं विडम्बेमि ण वत्ति । (क) को मे हृदयगतः । (ख) महाराजसंवरणः । (ग) अन्यगतमनोरथं तं जनमुद्दिश्य कस्माद् मां विडम्बयसि (घ) तव हृदयमेव जानात्यहं विडम्वयामि न वेति । तथोक्तेऽपि तात्पर्यमविज्ञाय पृच्छति - को मे हृदयगत इति । पराभिप्रायं ज्ञातुं ते पाण्डित्यमिति चेत् मदभिप्रायं कथयेतीषदमर्षगर्भमुक्तिः ॥ तच्छ्रुत्वेदानीं स्पष्टीकरोमि, किं परिस्फुटस्य गोपने प्रयासेनेति(दृ?धृ)- ष्टमाह - महाराजसंवरण इति । महाराज इत्यनेन मनोवृत्तेरनौचित्यकलङ्कितत्वं च न शङ्कनीयं, तत् किं गूहस इत्यभिप्रायः ॥ एवं श्रुते नायकं प्रति पूर्वोद्भुतामाशङ्कामनास्थाविषयत्वेन प्रकाश्याह--- अन्यगतेत्यादि । अन्यगतहृदयं स्वदेवीनिविष्टचित्ततयास्माभिः परिज्ञातम् अत एवास्मासु तटस्थवृत्तिं तं जनमुद्दिश्य किं मां परिहससि । अन्यगतहृदयस्तव हृदये वर्तत इत्यस्मद्विडम्बनमेव त्वया क्रियते || एवमुक्ते तस्या गुप्तप्रकाशनेनानिष्टं शङ्कमाना विवादं विमुच्यानुनय- पूर्वमाह -- तव हृदयमेव जानात्यहं विडम्बयामि न वेति । महाराजसंवरण- स्तु तव हृदयगत इति मयोक्तम् | त्वयाप्यन्यगतहृदय इत्यनेन तस्यायोग्यत्वमेव कथितम् । तत्रापि ममानुवादः । तत् तिष्ठतु । तथापि तव हृदये वर्तत इति मम परिहासो वा वस्तुवृत्तं वेति तव हृदयं पृच्छ । नान्येन ज्ञातुं शक्यम् । सर्वथा स एव तव हृदयगतः ॥ १. ' का म' इति क ख घ. पाठः. २. 'का अ' इति क-ख, पाठः, ३. 'ळ' इति क-ख. पाठः,