पृष्ठम्:तपतीसंवरणम्.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपती संवरणे नायिका --- (क) अळं परिहसिअ । को मग्गो भअवदो भिउणो अस्समपदस्स | मेनका -- (ख) ण अह्मे अस्समं पत्थिआ । तर्हि रम्भं पेसिअ - तवणवणमुद्दिसिअ आअदह्य । नायिका ---(ग) आ तवणवणं पत्थिदह्य। कहिं पुण तं । मेनका --- (अधो विलोक्य) (घ) एवं फळिहमण्डवस्स सिहरं दीसइ । ता ओदरह्म । M (अवतरणं नाटयतः) (ततः प्रविशति बद्धकर्णपूरदण्डहस्ता रम्भा ) रम्भा -- (ङ) अहं हि सहीहि णिउत्ता, जह-भिउणो अस्समपदं (क) अलं परिहस्य । को मार्गो भगवतो भृगोराश्रमपदस्य । (ख) नावामाश्रमपदं प्रस्थिते । तत्र रम्भां प्रेष्य तपनवनमुद्दिश्यागते स्वः । (ग) आ तपनत्रनं प्रस्थिते स्त्रः । क्व पुनस्तत् । (घ) एतत् स्फटिकमण्डपस्य शिखरं दृश्यते । तदवतरावः । (ङ) अहं हि सखीभ्यां नियुक्ता, यथा भृगोराश्रमपदं गत्वावधारय स राज- इत्युक्तेऽपि तत्रापि परिहासमङ्गीकृत्य व्याक्षिप्तचित्ता पृच्छति -- अलं परिहस्येत्यादि । भृगोराश्रमे नायकस्थितिमनुसन्धाय तत्प्रश्नः ॥ मेनका तमप्याक्षिप्य प्रकृतं स्पष्टयति – नावामित्यादि । नावामाश्रमं प्रस्थिते । तत्र जिज्ञासामनूद्याह -तत्र रम्भां प्रेप्य तपनवनमुद्दिश्यागते स्व इति । व्याक्षिप्तचित्तामेनां न पीडयामीति बुद्ध्या तत्त्वकथनम् ॥ तदानीं तत्प्रत्यभिज्ञापुरस्सरमाह -आ तपनवनं प्रस्थिते स्व इति । क्व पुनस्तदिति परिश्रमेण सामीप्यमपेक्ष्योक्तिः ॥ - तद् विदित्वाह - एतत् स्फटिकमण्डपस्य शिखरं दृश्यते तदवतराव इति ॥ अथ प्रस्तुतगमनाभिप्राया रम्भा गमनकार्यस्य सिद्धत्वात् प्रसन्ना स्वप्रवृत्तिं कथयति –– अहं सखीभ्यामित्यादि । सखीभ्यां नियुक्तेति वात्सल्येन १ 'मपदं प' इति ग घ. पाठा,