पृष्ठम्:तपतीसंवरणम्.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । १०७ गत्तूण अवहारेहि सो राएसी तत्थ सण्णिहिदो ण वैत्ति । सो उण अज्ज पओसोवक्कमे एव्व तवणवणाहिमुहो वअ- स्सेण सह पत्थिओ । ता तवणवणं एव्व गढुअ सहीओ दक्खिस्सं । (परिक्रामति) मेनका --- (विलोक्य) (क) सहि ! एसा रम्भा बद्धकण्णेउरळठ्ठि घेत्तूण आअच्छइ । रम्भा --- (उपसृत्य) (ख) सहि ! सुहावेइ तुमं जोहादुऊळावँउण्ठिओ अअं पओसो । पिंस्तत्र सन्निहितो न वेति । स पुनरद्य प्रदोषोपक्रम एव तपनवनाभिमुखो वयस्येन सह प्रस्थितः । तत् तपनवनमेव गत्वा सख्यौ द्रक्ष्यामि । (क) सखि! एपा रम्भा बद्धकर्णपूरयष्टिं गृहीत्वागच्छति । (ख) सखि! सुखयति त्वां ज्योत्स्नादुकूलावगुण्ठितोऽयं प्रदोषः । तन्नियोगानुष्ठाने कृतार्थता व्यज्यते । यथेति तत्प्रकारोपक्रमः | अवहारेहि अव धारय निश्चिनु सन्निहितो न वेति । पूर्वं तत्रस्थ इति श्रुतत्वादिदानीं तत्र सन्नि- धानमवधारयितव्यम् । इतिशब्दोऽवधारणप्रकारे । नियोगोपसंहारे यथार्थेनैवालम् । तपनवनाभिमुख इत्यनेन आश्रमसन्निधानात् तपनवनप्राप्तिरस्मत्साध्यानुगुणा । प्र- दोषोपक्रम इत्यनेन झटिति ततो निवर्तनाभावश्च प्रकाशितः । तत् तपनवनमे- वेति । प्रियसख्योरपि तत्र गमनात् तत्रैव गन्तव्यम् ॥ इति निश्चित्यागतां रम्भामवेक्ष्य मेनका सखीसमाश्वासनोपायं निरूपयन्ती तामाह – एषेत्यादि | - - समागता रम्भा झटिति समाश्वासनाय साध्यसिद्धिं व्यङ्ग्यत्वेन प्रकाश- यति – सखीत्यादि । ज्योत्स्नादुकूलावगुण्ठितोऽयं प्रदोषसमयस्त्वां सुखयतीति प्रश्नगर्भकाकुरूपेण सुखजनकत्वं बोधयति । अयं प्रदोषः प्रदोषान्तरात् सुभगः, यतः प्रारम्भ एव ज्योत्स्नारूपेण दुकूलेन सर्वतो व्याप्तः । ज्योत्स्नाया दुकूलत्वा- ३. 'वगुण्ठिदो अ' इति घ १. ‘वे' इति क-ख. पाठ:. २. 'दो' इति क ख. पाठः पाठ:. ४. 'दोसोवक्कमो । ना' इति घ. पाठः.