पृष्ठम्:तपतीसंवरणम्.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७४ तपतीसंवरणे S नायिका - (निश्वस्य प्रत्याकलय्य) (क) कीस मए सङ्कप्पसङ्गमादो अत्ता अत्थाणे उवाळद्धो । सख्यौ - (सहर्षं) (ख) ऊससिअह्म । -- विदूषकः - (ग) भो वअस्स ! किं सुदं तुए । राजां-- (प्रतिनिवृत्य) न खल्वेतावता भवतः समाश्वासः । पश्य -- (क) कस्मान्मया सङ्कल्पसङ्गमादात्मा अस्थान उपलब्धः । (ख) उच्छ्रसिते स्वः । (ग) भो वयस्य ! किं श्रुतं त्वया । शक्यं, किं पुनरत्माकम् । अत्या व्यवहारो न च परिपूर्णः । नच कस्यापि मुखप्रे- क्षणेन वक्ति, स्वहृदये सञ्चिन्तितमर्थं किञ्चित् किञ्चिद् व्याहरत्येव । अतः सम्भ्र- मेण तात्पर्यं ज्ञातुं न शक्यम् । अन्यच्च । अत्या इयमाकृतिः उत्तमस्त्रीलक्षणपरि- पूर्णा निन्दनीयं निषिद्धाचरणरूपं कर्म कर्तुं न योग्या भवति “यत्राकृतिस्तत्र गुणा वसन्ती”त्याप्तवचनेनास्यामाकृतौ गुणानामेव सामग्यूं, दोषस्य लेशतोऽपि संसर्गो न घटते । तत् पुनरपि किञ्चिच्छ्रुत्वेति । उक्तमर्थम् अन्यथा योजयति वा सम- र्थयति वेति वीक्ष्य गच्छावः | प्रवृत्तौ निवृत्तौ च भवतोऽतीव त्वरा । तद् गमनमेव -घटते । मदपेक्षया द्वित्राणि पदानि श्रुत्वा गच्छावः ॥ एवं श्रोतृवैषम्यस्य झटिति निवृत्त्यर्थमुन्मादविवशायास्तस्याः सद्यस्तत्त्वनि- रूपणेन वचनं - कीस मए इत्यादि । कस्मान्मया आत्मा अस्थाने अनवसरे अ- धिक्षेपायोग्ये कर्मणि अधिक्षिप्तः । सङ्कल्पसङ्गमात् सङ्कल्पसङ्गमे भ्रमेणान्यथा व्यवहृतं भ्रमहेतुत्वात् सङ्कल्पसङ्गमस्य हेतुत्वम् ॥ एवं परमार्थबोधेन भयनिवृत्त्या सख्योराश्वासः ॥ भो इत्यादि । श्रुतं त्वयेति अनयोक्तमिति शेषः ।। इदानीं मम त्वदाज्ञानिरोधस्य साफल्यं जातमिति कृतार्थतागर्भं तद्वचन- माकर्ण्य पुनरपि प्रतिनिवृत्त्य शङ्कान्तरमन्तर्निधाय तदुल्लासं शमयति-न खल्वि- त्यादि । अविषये मम मनः प्रवृत्तमिति वैषम्यमपगतामिति खलु तवाश्वासः । किमेतावता । अनेनेयमदुष्टेति सिद्धम् । इदमप्यपेक्षितम् । एतेनैव नाश्वासः । भवत इति मम वैषम्यमविज्ञाय किं श्रुतमित्युक्ते भवदाश्वासः सूचितः । न ममापि तन्न सन्तोष्टव्यम् । पश्य निरूपय निरूपणीयं वैषम्यं त्वां बोधयामि । १. 'ख्यौ ऊ' इति ख-घ. पाठः. २... 'जान' इति घ. पाठः,