पृष्ठम्:तपतीसंवरणम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । ७३ जण अहिसरन्तीए कण्णआजणविरुद्धं आचरिअं । (सख्यो सत्रासमुरसि हस्तं दत्वा परस्परमत्रलोकयतः) - 1 राजा – (सनिर्वेदं परावृत्य) अहोतुखलु ममापि नाम परपरामुष्टे वनिताजने प्रवृत्ते मनश्चक्षुषी सखे ! साधयामस्तावत् । विदूषकः -- (क) भो ! एअदेसणिसमणेण पआवइणो वि ण सक्कं परमत्थं जाणिदुं । ण एसा आइदी णिन्दणिज्जं कम्म कादुं पारेइ । ता पुणो वि किञ्चि सुणिअ गच्छह्य | चरितम् । (क) भो ! एकदेशनिशमनेन प्रजापतेरपि न शक्यं परमार्थं ज्ञातुम् । नैषकृति- निन्दनीयं कर्म कर्तुं पारयति । तत् पुनरपि किञ्चित् श्रुत्वा गच्छावः । जाता । आत्मच्छन्देन स्वतः कन्यकाया अपरिणीतायाः पुरुषसङ्गमो विरुद्धः, ततोऽप्यभिसरणं, ततोऽपि स्वातन्त्र्येण । अन्यत्रेरणया चेत् तत्प्रेरणपारतन्त्र्यं वक्तुं शक्यं, तथा च न । तं जनं लोकोत्तरम् अनुचितकरणे शङ्कनीयम् । एवम- भिसरन्त्या मया कन्यकानां निषिद्धमाचरितम् । अतोऽहमतिनिन्द्यैव ॥ इति तस्या दुर्विनयसूचकं वचनमाकर्ण्य भागान्तरे स्थिते सख्यौ अस्म- त्प्रमादेनेयमीदृशी जातेति त्रासेन क्षुब्धश्वाससंरोधनार्थमुरसि हस्तं न्यस्येतिकर्त्त- व्यता मौढ्यं परस्परं दृष्टिपातेन बोधितवत्यौ ॥ नायकस्त्वनुचितश्रवणेन स्वयं सत्पथप्रवृत्तत्वात् झटिति निर्वेदेन विमुखो भूत्वात्मानमनुशास्ति- अहोतुखल्विति । आश्चर्यम् इदानीमेवं जातं ममापि नाम परदुर्विनयनिवारणबद्धदीक्षस्य कुत्सितमिदं कर्म । परपरामृष्टे परभुक्ते वनि- ताजने वनितात्वमेव केवलं सिद्धमित्यपि दोषः । मनश्चक्षुषी इति । मनःप्रवृत्तेः अतीवायोग्यत्वं, मनःपूर्वत्वं न चेच्चक्षुषस्तथा नेति मनसः प्रथमनिर्देशः । इति स्वचित्तप्रवृत्तिं निरस्य प्रायश्चित्तं प्रतिपादयति - सखे ! साधयामस्तावत् एतद्दर्श - नवचन श्रवणपरिहाराय दूरमपसरामः ॥ - एतच्छ्रुत्वा नर्मसचिव एत्रमान्तरालिकं विरागं निरुणद्धि - एक देश इत्यादि । एकदेशनिशमनेन व कुर्व्यवहारेऽभिप्रायं ज्ञातुं सर्वज्ञस्य ब्रह्मणोऽपि न १. 'क' इति घ. पाठ:. २. 'णीअं क' इति क ख ग. पाट:.