पृष्ठम्:तपतीसंवरणम्.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

७२ तपतीसंवरणे विदूषकः--- (क)भो! जिस्से तं पदजुअळं कण्णउरो अ, जइ इअं सा अ एक्का भवे, सुठ्ठ संपज्जइ । राजा---को जानीते विधिविलसितानि । अप्रकाशं स्थित्वा स्वैरालापैरमुष्या एव निश्चिनुमः। (तथा कृत्वा स्थितौ) नायिका-- (सविषादम् ) (ख) धिक्खु मं जाए अप्पच्छन्देण तं (क) भोः यस्यास्तत् पदयुगलं कर्णपूरश्च, यदीयं सा चैका भवेत् , सुष्ठु सम्पद्यते । (ख) धिक् खलु मां, ययात्मच्छन्देन तं जनमभिसरन्त्या कन्यकाजनविरुद्धमा एवमस्य वचनेनाकारेण च तस्यां सस्पृहत्वमाकलय्य नर्मसचिवश्चित्तानुसारेण तदिच्छां पोषयति-भो इत्यादि । भो मदुक्तिं प्रत्यवहितेन भवितव्यम् । यस्यास्तत् पदयुगलं कर्णपूरश्च । केवलयोः पदवतंसकयोरसम्भवात् तत्सम्बन्धिनी काचिदस्तीति निश्चयः । भवता सम्भ्रमेण सङ्कल्पशरीरमनुभूयते । तावता न कृतार्थता । अस्यामपि भवतो विरागो न ज्ञायते । तत्रैकस्या दृष्टिगोचरत्वेन अन्यस्याः सङ्कल्पमात्रेण स्पृहाविषयत्वेऽतीव वैषम्यम् । यदीयं सा चैका भवेत् , सुष्टु सम्पद्यते “यस्यां मनश्चक्षुषोः प्रवृत्तिस्तस्यामृद्धिः" इति कामसूत्रानुसारेण भोगानुगुण्यम् । अस्माकं परमप्रयोजनसिद्धेश्च न वैषम्यम् । अत एवं ममापेक्षा ॥ ___ एवमात्मचित्तानुसारि तद्वचनमाकर्ण्य दैवानुकूल्यमभिप्रेतसाधकत्वेनाशास्ते-- को जानीते विधिविलसितानि । देवस्य साम्मुख्यवैमुख्यादीन्यस्माभिर्ज्ञातुं न शक्यन्ते । प्राप्तानि सेव्यन्त एव । विधरेवात्र साधकत्वं, न स्वल्पस्याप्यस्मत्पौरुषस्येति प्रकाश्यते । तथाप्येतन्मनोवृत्तिं ज्ञातुं यतितव्यम् । ततोऽप्रकाशं स्थित्वामुष्या एव स्वैरालापैर्निश्चिनुमः । अमुष्या एवेत्यन्योक्तेः स्ववचनस्य विश्वास्यत्वात् निश्चयशेषत्वम् । स्वैरालापैः विविक्ततया स्वच्छन्दप्रवृत्तैर्मनोवृत्त्यनुगुणैर्व्यवहारैः । एवमुक्वा तद्वचनश्रवणापेक्षी स्थितः ॥ अथ तस्याः सङ्कल्पपरिणतौ साक्षात्सङ्गमबुद्ध्या विषादगर्भमात्मनिन्दापरं वचनं नायकस्य विरुद्धव्यभिचारिमुखेन मध्ये व्यभिचारिरागसूचनार्थ सख्योर्मध्ये त्रासजननार्थं च प्रतिपादयति---धिक् खलु मामित्यादि । अहं कुत्सनयोग्यैव १. 'स्से सो कण्णेउरो तं पादजुअळं च ज' इति ग. पाठः. २. 'रं च ज इति क. पाठः.