पृष्ठम्:तपतीसंवरणम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । स्त्रीसर्गप्रथमाङ्कुराकृतिमिमामध्यक्षयन्नात्मनो निष्पत्राकुरुते चिराय हृदयं मन्ये स पुष्पायुधः ॥ ८ ॥ अयमर्थो ममानुभवगोचरः । स इति प्रसिद्धोऽप्येवमेतदर्शने वैषम्यपदवीमव गाहते, किं पुनरन्य इति कैमुतिकन्यायेन सिद्धम् । निष्पत्राकुरुते “सपत्रनिष्प - त्रादतिव्यथने ” (५-४-६१) इति डाच् । डाजन्तस्य गतिसंज्ञ्या प्राक् प्रयोगः । " स्वतन्त्रारोपितं दुःखं निष्पत्राकरणं स्मृतम्" इति चाहुः । इमामित्युक्तमन्यस्त्री- व्यतिरेकं म्फुटयति-अम्लानामित्यादि । अस्यां प्रकारद्वयेन शोभायाः स्थितिः कान्तिरूपेण सर्वावयवेषु निलीनतया एकः प्रकारः, औज्ज्वल्येन माणिक्यादिदीप्ति- वदङ्गान्याच्छाद्य बहिरपि प्रसृमर् एकः प्रकारः । तत्र पूर्वप्रकार एवमारोपयितुं शक्यम् । अम्भोरुहाणां श्रियं जातौ बहुवचनम् अम्भोरुहजात्यनुबद्धां श्रियं कान्तिमेव, पद्मशोभायाः लक्ष्मीनिवाससम्बन्धेन सौम्यतया सौरभानुबन्धेन च सर्वत्र प्रसिद्धिः तादृशी पद्मशोभैवेयमिति प्रकर्षेणारोपः । अम्भोरुहाणां श्रियमिति व्य- स्तरूपकम् । तत्र व्यतिरेकमाह - अम्लानां कदाचिदपि ग्लानिरहितां सदा प्रत्य- ग्राम् अन्यस्यास्तदा तदा म्लानिर्दृश्यते दिनसङ्कोचादिभिः, तादृशीं न । तथा अहिमोपरोधकलुषां हिमोपरोधेन कालुप्यं च नास्त्यस्या इति व्यतिरेकविशिष्ट आरोपः । ‘नो कल्पापायवायोरि' त्यादिवत् । बहिः प्रसृतायां सर्वावयवाच्छादिका- यां शोभायां निरूप्यमाणायां दीप्रां दीपशिखामेव दीप्रां वातादिभिरव्याकुलितां सदा दीपनशीलां दीपज्वालामेव । तत्रापि व्यतिरेकः अकज्जलतमोलेशाम् अन्य- स्याः कज्जलकृतेन तमसा सम्बन्धो नित्य एव, अस्याः कलङ्कलेशोऽपि नास्ति । तथा अनुष्णार्चिषमित्यपि व्यतिरेकः । अकुण्ठेऽप्यौज्ज्वल्ये अर्चिषां तेजःप्रसराणाम् औष्ण्यं नास्ति, प्रत्युत स्पर्शानन्दकरत्वमेव, अन्यस्या उष्णतया दाहो भवेत् । द्विप्रकारे शोभास्वरूपे निरूप्यमाण एव विशिष्टारोपयोग्याम् | ईदृशस्य सौरूप्य- स्य विवरणाशक्यत्वात् सर्वगुणसमष्टिरूपेण विशिनष्टि-स्त्रीसर्गप्रथमाङ्कुराकृतिं, किं बहुनोक्तेनेति शेषः, स्त्रीसर्गस्य स्त्रीसंज्ञकपदार्थसृष्टेः प्रथमाङ्करः व्यक्त्यन्तरनिदर्श- नत्वेन प्रथमं परिपूर्णसमग्रलक्षणं स्वरूपमाकृतिर्यस्याः ताम् । अन्यस्त्रोनिर्माणे प्रतिमानरूपमेतस्या रूपमित्यर्थः । सर्वजनहृदयमोहनस्य मदनस्यापि हृदयम् एत- द्दर्शने मुह्यत्येवेति प्रकर्षकथनेन विस्मयानुबद्धा रतिः प्रकाश्यते ॥ ८ ॥