पृष्ठम्:तपतीसंवरणम्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७० तपतीसंवरण अम्लानामहिमोपरोधकलुषामम्भोरुहाणां श्रियं दीप्रां दीपशिखामकज्जलतमोलेशामनुष्णार्चिषम् दीप्रां । त्येवार्थः । किमाश्चर्यनित्याकाङ्क्षायां लावण्यातिशयान्तराणामप्रतिष्ठा । दृश्यत इति शेषः । एवं वा समन्वय :- लावण्यं वनितागुणेषु प्रधानभूतं नयनग्राहि । लावण्यं हि नामावयवसंस्थानादिव्यङ्ग्यं निखिलावयवव्यतिरिक्तं किञ्चिदेव तत्त्वा- न्तरमित्याचार्याः । “भूयिष्ठं तेज एवाद्भिर्हुलाभिमृदूकृतम् । चक्षुरानन्दजननं ला- वण्यामति गीयत” इति दिवाकरः । एवं लक्षितस्य गुणस्यातिशयः प्रकर्षः तस्या- न्तराणि विशेषाः, न खलु लावण्यप्रकर्षः सर्वत्रैकरूपः क्वचित् सौकुमार्यादिगुणा- न्तरसम्मिलितः, क्वचित् स्वयं प्रधानभूत इत्यादिप्रसरणप्रकारा विशेषाः तेषाम् । प्रतिष्ठा इयत्तास्थितिर्न दृश्यते प्रतिक्षणमवलोकने प्रत्यग्रतैव दृश्यते, अन्यत्र नैवं दृष्टं, न दृश्यते, न द्रक्ष्यते चेत्यतिशयः । यदिति पूर्ववाक्यशेषः । लावण्य- मित्युपलक्षणं गुणान्तराणाम् । अखिलवनितागुणानामत्रेयत्तास्थितिर्न दृश्यते यत्, तद् एवमनुमातुं शक्यम् इदं पदार्थान्तरं सृजता अद्यतनेन वेधसा पुरातनाः प्रजा- सृजः पराजिता इति । इदमिति पुरो दृश्यमानमध्यपरिच्छेद्यतया पदार्थान्तरराम- त्येव वक्तुं शक्यम् | सृजता आसन्नकालं निर्मितवता । वर्तमानसामीप्ये लट् । अनेन सृष्टेरपर्युषितत्वेन चारुत्व प्रकर्षो गम्यते । अद्यतनेन वर्तमानकल्पाधिकारि- णास्माकं पितामहेनेति वात्सल्यातिशयो व्यज्यते । पुरातनाः द्विपरार्धरूपकाले नियताश्रुषोऽतीताः । प्रजासृजः सृष्टिकर्मनिरन्तरप्रवृत्ताः । पराजिताः न्यक्कृताः । एवं- सृष्टौ पुरातनानां न सामर्थ्यम् । अतः अद्यतनेनास्मत्पितामहेन सर्वे निर्जिता इति क- ल्पयितुं शक्यम् । कुत एवं प्रकर्षकथनमित्यत्रोक्तं सृष्टेर्विशेषणं दिङ्मात्रेण प्रदर्श्य कैमुसु- तिकन्यायेन फलमाह–अम्लानामित्यादि । इमामध्यक्षयन् पुष्पायुधः आत्मनो हृदयं चिराय निष्पत्राकुरुते । पुष्पायुधः मृदुना साधनेन विश्वविजयाद् गर्वितः । इमां पितामहसृष्टिसीमानम् | अध्यक्षयन् पश्यन् । आस्तां सम्बन्धान्तरम् । आत्मनो हृदयं परहृदयपीडनसाधनेन चिराय निष्पत्राकुरुते अतिव्यथयति । स्वयमसक्तोऽन्यपीडा- साधनत्वेनासावन्याः परिगृह्णाति । अत्रास्यास्त्रस्य महत्त्वेन प्रथममात्मनो हृदयं पीडयति । तत्रापि यदृच्छया वैवश्योदय इति न । चिराय दर्शनानुबद्धा पीडा चिरकालमनुबध्नात्येवेत्यहं मन्ये इति हृदयसंवादेन व्यवहारः, न तटस्थवृत्या |