पृष्ठम्:तपतीसंवरणम्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । राजा - वैधेय ! सर्वमेतदुपरमार्थम् । स्फाटिकोऽयं दिव्यजनगो- ष्ठीमण्डपः । इदं च स्वच्छस्फटिकभित्त्यनिवारितदर्शन- मात्मतेजःपटलावगुण्ठितं किमपि दिव्याङ्गनारत्नम् । (पुनः सस्पृहं सावधानं निर्वर्णयन्) अहोतुखल्वप्रतिष्ठा लाव- ण्यातिशयान्तराणां, यदद्यतनेन वेधसा सृजता पढ़ा- र्थान्तरमिदं पराजिताः पुरातनाः प्रजासृजः । कुतः एवं प्रत्यक्षसाधिते कथं भ्रमस्यावसरः । एतदपि किं सत्यम् एतद् उक्तं जलशैला दिकम् । किं पूर्वोक्तशेषं वस्तुरूपम्, उतासत्यमिति वाक्यशेषः ॥ - इति तस्य वचनं श्रुत्वा भ्रमाधिष्ठानरूपं स्फटिकमण्डपमवलोक्य आले- ख्यभ्रमनिमित्तं नायिकारूपं च निजतेजःप्रसरतिरोहितं यावद्वस्तुरूपनिश्चयं सकौतुकमवलोक्य तद्भ्रमं प्रतिक्षिपति - सर्वमेतद परमार्थमिति । किं तहीं- त्यत्राह -~~ स्फाटिकोऽयमित्यादि । दिव्यजनगोष्ठीमण्डप इति विन्यासचातुर्येण तत्र दिव्यजनविहारयोग्यत्वाच्च कल्पितम् । इदं चेति । पूर्वस्य भ्रमरूपत्वं निरस्य दिव्यजनगोष्ठीमण्डपत्वं चोधितम् । इदं च तवालेख्यभ्रमकरं किमपि दिव्याङ्गनारत्नं स्फटिकभित्त्यन्तर्गतमपि स्फटिकस्य स्वच्छतयानिवारितनयनर- श्मिप्रसरं बहिःस्थितैरपि द्रष्टुं शक्यम् । तर्हि किं निरावरणमिति चेत् तन्न । आत्मतेजःपटलेन स्वदीप्तिसञ्चयेन न त्वाभरणादिप्रभया अवगुण्ठितम् आवृतं झटिति नयनप्रसराविषयम् । अत्रावरणत्वेन कल्पितायाः स्फटिकभित्तेः स्व- च्छतयावरणसामर्थ्याभावादतिगोपनीयस्यात्मनः स्वतेजःपटलेनावगुण्ठनं कल्पित- मिवेत्युत्प्रेक्षा व्यज्यते । किमपीति दृष्टिपात एवानिर्देश्यमहिमत्वं प्रकाश्यते । तथापि वस्तुस्वरूपमात्रं ज्ञातं दिव्याङ्गनारत्नमिति । अङ्गनारत्नमिति दृष्टिपात एव निश्चितम्, अन्यथानुपपत्त्या दिव्यत्वमपि । एवं वनितारत्ने दत्तदृष्टिरेव तद्भ्रममपास्य क्रमेण विचारविस्मयानुरागमिश्रं तदङ्गेषु तत्र तत्र लग्ने नयने प्रयत्नेनाकृप्य सर्वतोऽभिव्याप्य प्रथमं विस्मयानुवद्धरतिरसायनास्वादसहितं वागा- रम्भानुभावरूपं गुणवर्णनं करोति । अहोतुखल्विति पृथग्वचनम् आश्चर्यमि- १. 'थं दि' इति ख. पाउ: २. 'हम् अवलोकय' इति ख. पाठः ३. 'नं च नि' इति क. पाठः.