पृष्ठम्:तपतीसंवरणम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे अद्यापि भाति सरसी सरसीरुहाक्ष- हस्ताम्बुजन्मतलमध्यविवर्त्तिनीव ॥ ७ ॥ विदूषकः --- (क) जइ एव्वं अण्णं किं पि भमं दंसेमि । (परिक्रम्याग्रतो निर्दिशन्) एसो सो जळसेळो । एदं आळेक्खं । एदं पि किं सच्चं। ६८ (क) यद्येवमन्यं कमपि भ्रमं दर्शयामि । एष स जलशैलः । एतदालेख्यम् । एत- दपि किं सत्यम् । यनमि”ति भङ्गविशिष्टमणिर्लक्ष्यते । भग्नस्य भङ्गभावेन धावल्यातिशय इति भङ्ग- ग्रहणम् । स्वच्छजलेत्यर्थः । अत एव माणिक्यभूतलगतेति तलस्य च दृश्यत्वं प्रकाशितम् । कल्याणिनीति उत्पत्तिनिरूपणेन दर्शनेन च मङ्गलावहत्वं कल्प- यितुं शक्यम् । अस्याः सन्निवेशदर्शनेनैवमुत्प्रेक्षितुं शक्यम् । करतलोदकमिति न भूतपूर्वत्वाश्रयेण नाम, अद्यापि सरसीरुहाक्षहस्ताम्बुजन्मतलमध्यवर्त्तिनीव भाति । · अत्र माणिक्यभूतलगतत्वात् स्वच्छत्वान्मङ्गलावहत्वाच्च श्रीमन्नारायणकरतलस्य स्वतोऽरुणस्य समग्रमङ्गलहेतुभूतस्य मध्यवर्तिनी महाबलेर्विश्वदानजलरूपिणी, न स्थानान्तरसंक्रन्ता । अत्रोत्प्रेक्षया सरस्याः शोभातिशयो मङ्गलावहत्वं च प्रका- श्यते । अत्र हस्ताम्बुजन्मेति पुरुषव्याघ्रादिवदुपमासमासः, न तु हस्त एवाम्बु जन्मेत्यारोपः । तलस्य हस्तसम्बन्धयोग्यत्वं तत्र साधकम् ॥ ७ ॥ यद्येवमिति उक्तेष्वेकस्य वस्तुरूपत्वमिदं त्वयाङ्गीकृतं यदि । यदीति नि- श्चितमेव वक्तव्यं, नोपचारेण मम मोदकदानं कर्त्तव्यम् । निश्चितत्वे सति तस्य भ्रम- पङ्क्तिपरिगणनं न कर्तव्यम् । अन्यत् किमपि भ्रमरूपं दर्शयामि । भ्रममिति भव- त्सिद्धान्तानुसारेण मयोक्तम् । वादिनां परसिद्धान्तपरिग्रहो दोषः । तथापि मदु- क्तस्य वस्तुरूपत्वे भवदाक्षेपः कुतः । अन्यथा पूर्वमेव पराजयोऽङ्गीकृत इति भ्रम- मिति मयोक्तम् । एष स जलशैलः । स इति पूर्वोक्तसन्निवेशप्रकारः । एष इति मम सिद्धान्तस्य भवदपलापेन न शैथिल्यं जातम् । जलशैलः पूर्वं राशिरित्येव मयोक्तं, तत्र राशिशब्दस्य सञ्चयवाचकत्वे संशयो भवेत् । इदानीं स्फुटतया साध- यितुं शैलं इत्युक्तम् । भ्रमान्तरमप्यत्रैव बोधयामि । मयोक्तमालेख्यमपीद दृश्यते । १. 'किं अस' इति क-ग-घ. पाठः.