पृष्ठम्:तपतीसंवरणम्.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

राजा द्वितीयोऽङ्कः । राजा• मन्ये भ्रमपरिणामेनानेन भवितव्यम् । भवतु त्वदि- च्छां पूरयामि। 3 (उभौ परिक्रामतः) विदूषकः --- (क) भो वयस्स! पेक्ख पेक्ख एसौ सा सरसी, आदु अण्णं किं पि वत्थु । किं एत्थ वि अत्थि भमो । राजा - सत्यमेवैषा सरसी । इयमेव मन्ये भगवता भृगुणा नि- र्दिष्टा । पश्य - माणिक्यभूतलगता मणिभङ्ग तोया कल्याणिनी करतलोदकनामधेया। (क) भो वयस्य ! पश्य पश्यैषा सा सरसी, उतान्यत् किमपि वस्तु । किमत्रा- प्यस्ति भ्रमः । तदाकर्षणेऽप्यघटमानत्वं निरूप्याह – मन्य इति । अनेन त्वदुक्तेन पर्यन्ते भ्रमरूपेण भवितव्यम् । भवतु आन्तरनिर्णये भ्रमरूपं निश्चित्यापि त्वदि- च्छापूरणाय त्वामनुसरामि ॥ राजानमाकृप्य नयन्नाक्षेपमसहमान आह - भो. इत्यादि। पश्येति । अतः परं दृष्ट्वा वक्तव्यं, मयोक्तानि क्रमेण निरूपणीयानि ।' 'सरस्यास्तीर' इति मया पूर्वमुक्तं, तत् सत्यं वा न वेति कथय । पक्षे इत एव पराजयेनापसरामि । एषा पुरो दृश्यमाना किं सरसी उतान्यत् किमपि वस्तु । अन्यत् किमपि घटपटादिकं भ्रमस्याप्यविषयम् । किमत्राप्यस्ति भ्रमः । उपरितनो भ्रमसञ्चयस्तिष्ठतु | भ्रम इति भवद्वच्द्यनुसारेण मयोच्यते । उक्तेष्वेकस्य वस्तुरूपत्वे तदवलम्ब्य मया स्थातव्यम्, अन्यथा पला- यनं क्रियत इति निर्बन्धः ॥ - इति तद्वचनेन सरसीमवलोक्य पूर्वोक्तमनुस्मृत्य सादरमाह – सत्यमि- त्यादि । एषा सरस्येव, नात्र विमतिः | मन्य इति सामान्यप्रतीतिरेव न, एतत्स्वरूपावलोकने विशेषनिश्चयोऽपि जात इत्याह – इयमेवेत्यादि । इयमेव भगवता भृगुणा निर्दिष्टा करतलोदकनामधेया सरसीत्यन्वयः । विशेषप्रतीतेर्निमि- त्तमाह -- माणिक्यभूतलगता माणिक्यमयीमधोभूमिमाश्रिता । मणिभङ्गतोया मणिभङ्ग इव भग्नमुक्तामणिरिव तोयं यस्याः । भङ्गशब्देन " भावानयने द्रव्यान- --- 66 १. 'मि (प' इति घ. पाठ:. २. 'सास' इति क घ. पाठः ३. 'त्यमेषा' इति क-घ. पाठः.