पृष्ठम्:तपतीसंवरणम्.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे ए आइदी आळिहिदा । ता तुरिअं ओळोएंदु अत्तभवं । राजा - मूर्ख! निम्नोपसर्पणि वाशीण, तेषां कथमूर्ध्वगमनं स्थि- रीभावो वा । कथं वा तेष्वालेख्यानि लिख्यन्ते । विदूषकः - (क) करैदळगए आमळए किं दुव्विवादेण। पैञ्चक्ख- प्पमाणेण एव्व अहं साहेमि ( राजानमाकर्षति ) स्तीरे घनपटलैर्घनीभूतो जलराशिः । अन्यच्च तस्मिन् जले भगवत्या लक्ष्म्या आकृतिरालिखिता । तत् त्वरितमवलोकयत्वत्रभवान् । (क) करतलगत आमलके किं दुर्विवादेन । प्रत्यक्षप्रमाणेनैवाहं साधयामि । मया कथ्यते । सरस्यास्तीरगतः न तु सरसीं प्रविष्टः । अन्यमपि विशेषं कथ- यामि । घनपटलैः घनैः स्थिरैः निजखण्डैः शिलाखण्डैरिवोपर्युपरि दृढसंश्लेषं न्यस्तै- र्घनीभूतः समन्तादुपर्युपरि स्थितानां जलपटलानां विन्यासेनाविज्ञातावयवभेदम् एकघनीभूतः, एवंभूतो जलस्योर्ध्वसञ्चयो दृष्टः । इतोऽप्यधिकं कथयामि । अन्यच्च तस्मिन् जले घनीभूते भगवत्या लक्ष्म्या आकृतिरालिखिता । लक्ष्म्या आकृतिरेवैवं भवितुं योग्येति मया तथोक्तम् । तत् त्वरितमवलोकयतु भवान् । भवानिति भवदवलोकनस्यैव कार्यकरत्वम् । मम सर्वत्र घटकत्वमेव || एवं तस्य भ्रममाक्षिपति – मूर्खेत्यादि । अहो तव मौर्ख्यमुत्तरोत्तर प्रसरति । वारीणि निम्नोपसर्पीणि। निम्नमनुसरति सलिलमिति हि प्रसिद्धिः । निम्नोपसर्पणमे- षां स्वभावः कथमन्यथा भवेत् । अत ऊर्ध्वगमनकथनं भ्रमगतम् । स्थिरीभावोऽप्या- र्द्रस्वभावानां न घटते । तादृशेषु कथमालेख्यसम्पादनमिति सर्वस्य भ्रमरूपत्वम् ॥ मया यथादृष्टमेव कथितं सर्वे, भ्रम इति भवतः सिद्धान्तः । तत्रावयोर्दु- र्विवादेन कालक्षेपोऽभवत् । अहं प्रत्यक्षेणैव साधयामि । तदसाध्ये हि प्रमाणान्त- रापेक्षा । तद्दर्शनेन सिद्धान्तसमाधानं करोमीत्याकर्षणम् । अत्र सुनिमित्तात् प्रभृ- त्यभ्युदयहेतोर्नायिकासङ्गमस्यानुकूलमवस्थान्तरं तत्र तत्र निर्यत्नं घटत इतीदानी- मपि तद्भ्रमद्वारा दर्शनस्य सङ्घटनम् । तत्प्रकाशनाय दैवानुकूल्येन पौरुषप्रका- शनार्थं राजानमाकर्षतीति तस्य सङ्घटनोद्यमः प्रकाशितः ॥ १. 'वे' इति ख. पाठ: 'अ' इति क्र. पाठः, २. 'रग' इति घ. पाठः ३. 'चक्खुप्प' इति क-ख-ग. पाठ:.