पृष्ठम्:तपतीसंवरणम्.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः। रम्भा --- (क) अम्मो अपुव्वा इअ सहीए दसा । ता इह एव्व ठिदा- ओ एदाए ववसाअं जाणिअ पुणो अत्ताणं पआसह्य । (भित्त्यन्तरिते स्थिते ) (प्रविश्यापटाक्षेपेण विदूषकः ) विदूषकः - (ख) भो वअस्स! अच्छेरमच्छेरं । दिट्ठो मए विह्म- अणिज्जसण्णिवेसाए सरसीए तीरगओ घणपडलेहि घ णीभूदो जळरासी । अण्णं च तरिंस जळे भअवदीए ळच्छी- (क) अम्मो अपूर्वेयं सख्या दशा । तदिहैव स्थिते एतस्या व्यवसायं ज्ञात्वा पुन- रात्मानं प्रकाशयावः । (ख) भो वयस्य ! आश्चर्यमाश्चर्यम् | दृष्टो मया विस्मयनीयसान्निवेशायाः सरस्या- किमपि चिन्तयन्त्यपरिस्पन्दं तिष्ठति देहस्य किञ्चिञ्चलनमपि न ज्ञायते । अत- श्चिन्तनीये वस्तुनि तात्पर्ये कल्प्यते । किमिति न ज्ञायते किन्नु खल्वेतत् किन्नि- मित्तमिति निमित्तविषया शङ्का ॥ अथ तादृशीं तां चिरेणावलोक्य रम्भा सविषादमाह - अम्मो इति । अम्मो इति विषादद्योतकम् । सख्या इयं दशा अपूर्वा अदृष्टपूर्वा शरीरशोषवैव- र्ण्यादिरूपा । तद् झटिति न समीपे गन्तव्यम् । किमियं चिन्तयति कोऽस्य परि- णामः । एकाकिनी विरहविवशा चिन्तापरा किं करिष्यतीत्यध्यवसायं ज्ञात्वा आत्मानं प्रकाशयावः । अन्यथा झटित्यावां दृष्ट्वा अभिप्रायमाच्छादयेदेव। तद- ध्यवसायनिश्चयावध्यत्रैव तिष्ठाव इति ॥ अथ नायिकादशर्नसङ्घटनाय विदूषकस्य हास्यभ्रमः प्रतिपाद्यते । अपटा- क्षेपेणेत्यनेन सम्भ्रमः प्रकाशितः । तन्निमित्तमाह -- भो वयस्येत्यादि । आश्चर्य- माश्चर्ये, वर्त्तत इति शेषः । इतः परमन्यदाश्चर्य नेति द्विरुक्तिः, तदाह — दृष्ट इति । आश्चर्य वस्तु मयैकेनानुभूतमित्यत्र सुहृद्वञ्चनदोषो भवेदिति सम्भ्रमः क्रियते । मया विस्मयनीयसन्निवेशायाः सरस्यास्तीरगतो जलराशिर्दृष्टः जलस्योर्ध्वसञ्चयो दृष्टः । सरसी तावद् विस्मयनीयसन्निवेशा । अतोऽप्यन्यस्या आधिक्यम् इत्यनूद्य कथितम् । त्वया सावधानं न निरीक्षितमिति भवदपलापशङ्कया यथावस्तु निरीक्ष्य १. 'अं पिअस' इति ग. पाठः. २. 'ततः प्रविशत्यप' इति क-घ. पाठः. अ' इति घ. पाठः. ३. 'ळसेको