पृष्ठम्:तपतीसंवरणम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे (ततः प्रविशति रम्भा मेनका च ) रम्भो —- (क) सहि ! कहिं णु खु पिअसही तवदी । ६४ मेनका -- (ख) करदळोदअतीरगए फळिहमण्डवे तिस्से हिअअं अहिरमदि । तहिं ताए होदव्वें । रम्भा ---(ग) ता तर्हिं एव्व गच्छह्म । मेनका --- (घ) एसा किं पि चिन्तअन्ती अपरिप्फन्दं चिट्ठइ किं णु खु एदं । ७ (क) सखि ! क्व नु खलु प्रियसखी तपती । (ख) करतल.देकर्तारिगते स्फटिकमण्डपे तस्या हृदयमभिरमते । तत्र तया भ- वितव्यम् । (ग) तत् तत्रैव गच्छावः । (घ) एषा किमपि चिन्तयन्त्यपरिस्पन्दं तिष्ठति । किं नु खल्वेतत् । लाभेऽपि सङ्कल्पसौकर्यादभिरुचिश्च प्रकाश्यते । एवं परिकल्पितस्यानुभवेन स्तैमि. त्येन स्थितिरुक्ता ॥ अथ तां साहसान्निवारयितुं समाश्वासयितुं च सखी प्रवेशः प्रतिपाद्यते पूवै द्वयोः संव्यवहारे “अद्य मामप्यनालप्य तपनवनं गता । तत् तपनवनमेव गत्वा प्रियसखीमाश्वासयाव" इति संवादशेषतया द्वयोस्तत्रागमनम् । तत्र चिर- कालागतत्वेन तत्कालावस्थयासिद्धत्वाद् रम्भायाः प्रश्नः – सखि ! क्व नु खलु प्रियसखी तपती । वर्त्तते इति शेषः । तपनवन इत्येव र्पूवमुक्तम्, अत्रावामागते, अत्र कस्मिन् प्रदेश इति ब्रूहि । प्रियसखीत्यनेन चिरकालागताया दर्शनौत्सुक्यं प्रतिपाद्यते ॥ - - तस्योत्तरमाह – करतलोदकेति । इदानीं कुत्र वर्तत इति मया न ज्ञातम् । नित्यं करतलोदकतीरगते स्फटिकमण्डपे तस्या अभिरुचिर्दृश्यते । तदि- दानीमपि तत्र स्थितिः सम्भाव्यते ॥ तत् तत्रैव गच्छाव इति दर्शनत्वरया रम्भाया उक्तिः ॥ अथ ध्यानस्तिमितामवस्थितां तां वीक्ष्य मेनका शङ्कते - एषा प्रियसखी - '१. 'ति मेनका रम्भा च' इति घ. पाठः. २. ' म्भा क ' इति घ. पाठः. ३. 'व्व ता' इति घ. पाठ:. ४. ‘म्भा तेण हि त' इति ख. पाठ:. ५. 'ह्म । (परिक्रम्या- वलोक्य) रम्भा -ए' इति घ. पाठ:. ६. 'हु' इति ख-ग. पाठः ७. 'दं | मेनका- अ' इति घ, पाठः,