पृष्ठम्:तपतीसंवरणम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । कई वि सण्ठविअ अत्ताणं अणुट्ठिअमहुमहणपूजा आ अदह्मि । ता सहीजणेण वि असङ्किण्णे एत्थ विवित्ते तेण जणेणं सह अणिवारिअप्पसरेहि सह सङ्कप्पेहि सङ्गमिस्सं | (ध्यानतिमिता तिष्ठति) पूजागतास्मि । तत् सखीजनेनाप्यसङ्कीर्णेऽत्र विविक्ते तेन जनेन सहानि- चारितप्रसैरैः सङ्कल्पैः सङ्गंस्ये । चरामि । अनन्यसाध्यायामवस्थायामहमेकैव प्रवृत्ता इति वा । मनोरथसिद्धिस म्पादनार्थं सकलमनोरथसाम्राज्यमुद्वहतो जनिफलदायिनः, अत्रैव सकलमनो- स्थान्तर्भाव इति विशेषकथने * (निमित्तत्वं ?) भवेदिति मनोरथस्येत्येव वक्तव्ये तस्य सिद्धिर्लाभः तस्य सम्पादनार्थं भगवत्प्रसादेन कर्त्रा सम्पादयितुम्, अनेनानन्यलभ्यत्वं पूर्वं तत्प्रसादेन स्वजन्मसिद्धेस्तल्लभ्यत्वं च प्रकाश्यते । आ- त्मानं मनः । ऋथमपि मनोरथदयितनिलीनं पूजारम्भे वारंवारमाकृष्यमाणमप्य- विधेयं तत्रैव धावत् फलकाट्यां प्रसार्य भक्त्या निरुध्य बलबत् कथमपि वशी- कृत्य | अनुष्ठितमधुमथनपूजा आगतास्मि । आत्मसंस्थापनस्य पूर्वकालत्वेन पूजा- नुष्ठानत्यालङ्करणादिरूपत्य वैवश्यकृतमचारुत्वं निरस्तम् । अत्र मनोरथसिद्धीत्य- लाभेन खेदः, अनुष्ठितेति भक्तिः, आगतेत्यनेन कृतार्थता प्रकाश्यते । तत् कृतदि- नकृत्यतया अनन्यशरणत्वाच्च । अत्र भोगयोग्ये स्थले वर्तमाना, यतो विविक्ते वि जने । तत्प्रकर्षमाह् – सखीजनेनापीति । क्षणमप्यरहितेन विकारपरिज्ञाननिपुणेना- लङ्घनीयवचनप्रचारेण | असङ्कीर्णे असम्मिलिते । अनेन निरर्गलप्रवृत्तेरवैषम्येण देशस्य साध्यानुगुणत्वं प्रकाश्यते । तेन भुवनप्रसिद्धेनानुभूतरूपचातुर्येण तदा तदा प्रस्तुतेन च सङ्गंस्ये । सङ्कल्पैः, सङ्कल्पो मनोवृत्तिः । तत्र करचरणादि- रूपरामणीयकस्य मधुरालापस्याङ्गरागादिसौरभ्यस्याश्लेषपरिचुम्बनस्पर्शरसास्वादस्य प्रतिनियतस्यान्योन्यसंवलितस्य च सङ्कल्पाविषयस्य बहुत्वात् सङ्कल्पैरित्युक्तम् । सङ्कल्पस्यान्यसङ्गमा विशेषमाह - अनिवारितप्रसरैः । सङ्कल्पस्य मनोमात्र- साध्यत्वात् तस्य स्वयमेव प्रवृत्तत्वात् सङ्कल्पप्रसरो यथाबोधं प्रवर्तकेनापि स्व- जनेन कान्तेन लज्जया वा न निवार्यते । अत्र साक्षात्समागमाभावेन खेदः तद- २. ' हि अणुभविस्सं ' इति घ. पाठः.

  • ' नियामतत्वम्' इति वा 'नियतत्वम्' इति वा भवेत्.

१. “ण अ' इति ख-ग. पाठः.