पृष्ठम्:तपतीसंवरणम्.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे राजा - अत्र तावदनिर्वाणमाणिक्यदीपमालादूरीकृतगर्भगृहान्ध- कारा जाम्बूनदाकल्पकल्पितदिव्याकृतिवेषविशेषा सुधा सौरभसुभगसुरतरुसुमनः सम्पादितभक्तिसन्ताना सेयं स- पर्या सूचयति दिव्यजनसम्पातम् । (ततः प्रविशत्युपविष्टा कामयमानावस्था नायिका) नायिका – (क) (दीर्घं निश्वस्य) अहं खु मणोरहसिद्धिसम्पादणत्थं (क) अहं खलु मनोरथसिद्धिसम्पादनार्थं कथमपि संस्थाप्यात्मानमनुष्ठितमधुमथन- अत्र तावदित्यादि । अत्र सेयं सपर्या दिव्यजनसम्पातं सूचयति । सेयमिति यादृशी पूर्वं निर्मिता तादृश्येवेदानीमित्यनेन सपर्याविधानस्यासन्नकालत्वम्, अत एव शोभा- प्रकर्षश्च प्रतिपाद्यते । सैंवेयं, न कालात्ययेन म्लानिः । एवम्भूता दिव्यजनसम्पातं सूचयति दिव्यजनस्य अर्थादर्चकस्य सम्प्राप्तिं सूचयति । सपर्येति तत्साध- नानि निर्दिश्यन्ते । तत्प्रकारमाह -- अनिर्वाणत्यादि । अनिर्वाणाभिः नित्योज्ज्व लाभिः माणिक्यमयीभिः दीपमालाभिः दूरीकृतो गर्भगृहान्धकारो यस्याम् । जाम्बू- नदमयैराकल्पैः कल्पितो दिव्याकृतियोग्यो वेषविशेषो यस्याम् । तथा सुधा- सौरभेण सुभगाभिः सुरतरुसुमनोभिः सम्पादितं भक्तिसन्तानं गर्भगृहादिषु पुष्प- पटलविन्याससन्तानं यस्यां सा सपर्या इति । सुरतरुसुमनसां मकरन्दस्य सुधारूप- त्वात् सुधासौरभेत्युक्तम् । अत्र दिव्याकृतिवेषविरचनेन सुरतरुसुमनोभिर्भक्तिवि- न्यासेन च दिव्यजनसम्पातसूचनम् । अत्र दूरीकृतेति कल्पितेति सम्पादितेति पूजकव्यापारस्य गौरवकथनेन तद्विषयः कौशलनिमित्तो बहुमानातिशयः प्रकाश्यते ॥ - अथ प्रवेशके मेनकोक्तप्रकारेण संवरणानुरागविवशायाः स्वयमेव तपनवनं प्राप्य साध्यसिद्धये कृतवामनसपर्यायाः स्फटिकमण्डपस्थायाः “सूचयति दिव्यजन- सम्पातम्” इत्यनेन सूचिताया नायिकायाः प्रवेशः प्रतिपाद्यते । प्रविष्टा सा समु- चितकान्तविषयरतिसद्धीचीनरणरणिकानिश्वास वेपथुस्वेदचिन्तानुबन्धरोमाञ्चवैवर्ण्या- श्रुपरिश्रमसंवलिता अवसरलाभेन कान्तसङ्कल्पसमागमोत्सुका निरूपयति - अहं खल्वित्यादि । अहं खलु कथमपि संस्थाप्यात्मानम् अनुष्ठितमधुमथनपूजा आग- तास्मि । अहम् अनन्यसहाया । खल्विति विचारद्योतकः । विमर्शे निरवद्यमिदमा- -