पृष्ठम्:तपतीसंवरणम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । विदूषकः---(क) भो सम्पत्तह्म देवमन्दिरं। ता पविसिअ पणमह्म। राज --- (प्रवेशं रूपयित्वा बद्धाञ्जलिः प्रणमन्) धृताषाढं शश्वच्छुचि शबलकृष्णाजिनधरं शिखाबद्धग्रन्थि क्रतुवरनुतिव्यापृतमुखम् । दधद् ब्राह्मं सूत्रं कटितटलुठन्मौञ्जिरशननं* हूसीयो वन्देऽहं वनजनयनं वामनवपुः ॥ ६ ॥ विदूषकः - (ख) भो ! तुज्झ ळिहिदक्खराए जीहाए वअणप्फु- ळ्ळेहि अच्चिदो देव्यो। अणक्खरविभवो अहं केवळकुसु- माणि आणीअ अच्चिस्सं । (निष्क्रान्तः) (क) भो सम्प्राप्ताः स्वो देवमन्दिरम् । तत् प्रविश्य प्रणमावः । (ख) भो तव लिखिताक्षरया जिह्वया वचनफुल्लैरर्चितो देवः । अनक्षरविभवोऽहं केवलकुसुमान्यानी यार्चेिप्यामि । एवं देवमन्दिरस।न्निध्यं निश्चित्य तद्वचनानुसारेण प्रविश्य प्रतिमायां स्व- स्वरूपं भावयित्वाह — धृताषाढमित्यादि । अहं वामनवपुः वन्दे । घृताषाढमि- त्यादिना ध्यानालम्बनत्वेन स्वरूपकथनम् । आषाढो दण्डः । शश्चच्छुचि नित्य- शुद्धं मायातीतत्वात् । शबलकृष्णाजिनधरमित्यनेन शोभातिशयः प्रकाशितः । शिखाबद्धग्रन्थि शिखायां सम्पादितग्रन्थि । ऋतुवरस्य बलियज्ञस्य नुतौ सामगाने व्यापृतमुखम् । अनेन सान्निध्यनिर्वहणोद्यतत्वं प्रकाश्यते । दधद् ब्राह्मं सूत्रमि- त्यनेन कर्मकाण्डप्रवृत्तत्वं प्रार्थनानुगुणं सूच्यते । कटितटे श्लिप्यन्ती मौञ्जी मेखलैव रशना कटिसूत्रं यस्य | वनजं जलजम् ॥ ६ ॥ लिखिताक्षरयेति । जिह्वायामक्षराणि लिखितान्येव, अन्यथा कथं झटिति तेषां प्रसर इति युक्तिकल्पनम् । वचनफुल्लैरिति । अर्चनसाधनत्वेन वचनानां फुल्लत्वारोपः ॥ अथ देवस्य सपर्याविधानं सावधानं निरीक्ष्याह १. 'रं । प' इति ख. ग. पाठ: २. 'जा साज' इति ख. पाठः.

  • ‘ङयापोः’ (६-३-६३) इति बहुलग्रहणान्मौज्जीशब्दे ह्रस्वः समर्थ्यः । ‘मौजरशनम्' इति

वा. पाठः.