पृष्ठम्:तपतीसंवरणम्.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६० तपतीसवरण सम्मूर्च्छन्महिषासधूपकलिकाधूम्राः पयोरेणुभिः शुभ्राः कुङ्कुमकेप्सरारुणरुचः कर्पूरचूर्णस्पृशः । आघ्राता मदमञ्जुलैरलिकुलैरत्माकमध्वक्लमं लुम्पन्तः शिशिरा वनान्तमरुतो लिम्पन्ति नासापुटम् ॥ ५ ॥ (उभौ परिक्रामतः ) - तल्लक्षणमाह – सम्मूर्च्छेदित्यादि । वनान्तमरुतः नासापुटं लिम्पन्ति । वना- न्ताश्रयत्वेन शैत्यादिगुणसम्बन्धः प्रकाश्यते । नासापुटं लिम्पन्ति व्याप्नुवन्ति । अनेन मरुतां सांक्रामिकेन सौरभ्यगुणेन घ्राणेन्द्रियप्रियत्वं प्रकाश्यते । तदनुगुणं विशिनष्टि – सम्मूर्च्छदित्यादि । सम्मूर्च्छन्त्या वर्द्धमानया महिषाक्षधूपकलिकया गुग्गुलुसम्पादितघूपकलया धूपांशेन धूम्राः कृष्णवर्णाः । अत्र धूपस्य नासापुट- व्याप्तिशेषतया सुरभित्व वक्तव्ये तदनुक्तसिद्धमिति मत्वा विचित्रवर्ण प्रतिपादनसं- रम्भेण धूम्रा इत्येवोक्तं, 'धर्मिधर्मयोरेकतरानिर्देशेऽन्यस्य संवित् साहचर्यादि' ति धूपस्य वर्णे निर्दिष्टे सुरभित्वमनुक्तसिद्धमिति । तदनुसारेण लिम्पन्तीत्युक्तम् | धूप- कलिका सौरभ्येण सङ्क्रा तेन मरुतां सौरभ्यं, तेनाघ्रातव्यत्वं, तेन गोविन्दमन्दिरस्य प्रत्यासन्नत्वनिश्चय इति वन्तुस्थितिः । पुनः सांक्रामिकं वर्णातरं प्रतिपादयति- पयोारेणुभिः शुभ्राः पयोरेणुभिः अर्थज्जलाशयसगृहीतैः जलशीकरैः शुभ्राः ध वलाः । तथा कुङ्कुमकेसरारुणरुचः कुङ्कुमकेसरैः कुङ्कुमकेदारगृहीतैः केसरै- ररुणरुचः । अत्र स्पर्शगुणस्य वायोः साङ्क्रामिका विचित्रा धूम्रतादिगुणा उपचरिताः । तथा कर्पूरचूर्णस्पृशः परिपाकं गतस्य वायुसंबन्धात् स्फुटितकोशस्य कर्पूरस्य चूर्णत्वं भवति, ड्राहिणः । अत्र साङ्क्रामिकं धावल्यं सौरभ्यं च गम्यते। तत्र सौरभ्यं नासापुटलेपनोपयोगि । धावल्यं विचित्रवर्णतोपयोगि । मदमञ्जुलैः मधुमदेन मधुरनादैः अलिभिः परिमलानुसारित्वादाघ्राताः । अत्र वायोः सौरभ्य- ए॒पयोगि । अस्माकमध्वक्लमम् अतिदूराध्वगमनेन श्रमं, लुम्पतः अपनयन्तः, शि- शिराः शीतलाः वनप्रमरपोरेगु नम्बन्धादिना । अत्र स्पर्शगुणस्य वायोः साङ्क्रा मिकविचित्रवर्णस्फुरणेन नानाविधसौरभप्रसरणालिकुलनिनदादिशब्दप्रसरेण चेन्द्रि यान्तराकर्षकत्वेन सौभाग्यं प्रतिपादितम् || ५ || १ १. 'म् ।पि' इति घ. पाटः.