पृष्ठम्:तपतीसंवरणम्.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । विदूषकः - (क) ही ही सिविणेवि अदिट्ठपुरूवाणि एआरिसाणि दक्खन्तस्स आसा मे आती पुव्चप्पत्थुअं अम्बरगमणं पि कदाइ सम्भवित्सदि त्ति । राजा - (स्पर्शमनिनीय) प्रत्यासन्नेन गोविन्दनन्दिरेण भवितव्यम् । तथा हि (क) ही ही स्वप्नेऽप्यदृष्टपूर्वाण्येतादृशानि पश्यत आशा मे आसीत् पूर्वप्रस्तु- तमम्बरगमनमपि कदाचित् सम्भविष्यतीति । ममाप्येवं मतिः स्फुरति । इसं कल्पपल्ली पुरो वर्तमान तथापि हृदयसंवादाय सुलक्षा कल्पवल्ली कामिनी । अभ्याशचूतन अभ्य शतं चूतं कामुकम् | समुपगूहति सम्यगुपगूहति । सम्यक्तं सम्प्रयोगातेरण चारूत्वम् । तदाह- किसलयाघमिति । किसलयमेवाधरमित्यारोपः। तच्छेषतया आपाटलग्रहणम् | अर्पयाती ग्रहणानुगु- ण्येन ददतीति तत्काले विशेषणम् । तत्रापि संप्रयोगा तरेणोपकारः कथ्यते - मधुपझकृतिसीत्कृतानीति | मधुपझङ्कृतिरेव सीत्कृतानि मणितरूसविशेषान् । व्या वृण्वती स्पष्टयन्ती । अत्रोपगूहनत्याधरार्पणेन तस्य सीत्कारेण च सौभाग्य मिति मत्वा समुपगूहतीत्युक्तम् । उपगूहनप्रकारमाह - अरविन्दकुचोपपीडमिति । अर- विन्दरूपाभ्यां कुचाभ्यां पीडयित्वा । कल्पवल्लीषु सर्वकुसुमााना सम्भवादवि न्दस्योपपत्तिः । अनेनोरगूहनस्य गाढत्वं प्रकाशितम् । अत्र किसलयस्याधरत्वेन मधुपझङ्कृतेः सीत्कारत्वेनारविन्दस्य कुचत्वेनारोपस्य शाब्दत्वात् कल्पवल्ल्या नायिकात्वस्य चूतस्य नायकत्वस्य चारोपे आर्थत्वादकोशविवर्त्तिरूपकमिदम् । अत्रोपगूहने कर्तृत्वनिर्देशात् चूतनायकत्यासन्नवर्त्तित्वा बारोपितायःः प्रौढनायिकात्वं स्वाधीनपतिकात्वं च स्फुरति ॥ ४ ॥ स्वप्नेऽप्यदृष्टपूर्वाणीति । अत्यर्थमसम्भावनीयानीत्यर्थः । ईदृशानि कल्प- लताप्रभृतीनि पश्यतो मे आशा आसीत्, पूर्वप्रस्तुतं भवता प्रतिक्षितम् अम्बरग- मनमपि विधिवशात् कदाचिद् भविष्यतीति शृङ्गारोपस्कारकत्वेन हास्यकथनम् | अथ धूपानुविद्धसुरभिसमीरस्पर्षध्राणेन प्रस्तुतदवतायतनसान्निध्यं परिकल्प्या- ह-प्रत्यासन्नेनेति । गोविन्दमान्दरेण पूर्व त्वया प्रस्तुतेन सन्निहितेन भवितव्यनिति १. 'शे रूपांयेत्वा प्र' इति ख. पाठः. २ 'कुतः' इति ख. पाठः,