पृष्ठम्:तपतीसंवरणम्.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे मुउ सेदकणिआचिदाओ रदणसुमणोणअणेहिं ओळो- कअन्ति विअ तुमं मअगपरवसाओ हेममईओ वणळदा- कण्णआओ | तकमि एवं तवणवणं ति । राजा- सखे ! सम्यगुपलक्षितम् । इयं हि- आपाटलं किसलयाधरमर्पयन्ती व्यावृण्वती मधुपझङ्कृतिसीत्कृतानि । अभ्याश चूतमरविन्दकुचोपपीड- मत्यायतं समुपगूहति कल्पवही ॥ ४ ॥ मुकुत्दकणिकाचिता सुनोनयनरवलोकयन्तीव त्वां मदनपरवशा हेममयो वनलताकन्यकाः | तर्कयाम्येतत् तपनवन मिति । अथ चितानुसारी नर्मसचिवः सविस्मयं वनमालोक्य 'तद्विनोदनक्षमं बवोद्देशमि ति पूर्वोत्तमनुसृत्य तदनुगुणं वर्णयति एदाओ इत्यादि । अदृष्टपूर्वा इति । कल्पलतात्वेनान्यत्रालभ्यत्वात् । एतां वनलताकन्या: मदनपरवशास्त्वाम- वलोकयतीवेत्यागेपशेषतयोत्पेक्षा रत्ननुमनोनयनैः इन्द्रनीलादिरलमयसुमनोभि- रेव नयनैः । नयनानां करणत्वकथनं विशिष्टारोपशेषतया | कल्पलताकुसुमानां रत्नरूपत्वात् तथोक्तिः । अत एव मौक्तिक मुकुलस्वेदकणिकाचिता इति मौक्ति- कमयानां मुकुलानां स्वेदककात्यारोपः । मन्दसमीरवेपिताङ्गय इति कोमलत्वा- न्मृदुमारुत वर्गेन सर्वाङ्गचलनाद् वेपथुनमारोप | हेममय्य इति । लतानां तद्रूप- त्वाद्, आरोपेऽपि हेममयीत्वमलङ्कारादिना घटते । त्वामिति । अतिक्रमनीयरूपत्वात्त- थावलोकनयोग्यत्वम् । अत्र मदनपारवश्यानुभावरूपतया स्वेदवेपथुसमारोपः । त- त्राचेतनेष्वप्येवमुत्प्रेक्षितुं योग्यत्वे अन्यत्र भवतः काम्यत्वं किं कथ्यताम् इति प्रशंसा | - इति तस्य चित्तानुसारि वचनमाकर्ण्य श्लाघापूर्वं संवदति-सखे इत्यादि । सरसवीथीचङ्क्रमेण तव मनोवृत्तिः मत्प्रीतेः पुरःसरीभवति । अतः सम्यगुपल- क्षितम् । एतासां कल्पवल्लीनाम् एता रसवत्योऽवस्थाः प्रकाशन्त इति सम्यक्तम् । १. 'आइदा' इति ख-ग. पाठः २. 'न्तीओ वि' इति घ. पाठः ३. 'ओ। ता त इति ख. पाठः,