पृष्ठम्:तपतीसंवरणम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । अप्रत्यूहमहर्मुखार्कमहसामत्यर्थमम्भोरुहा- मातङ्कार्पणदुर्बलं हिमजलं जातं जराजर्जरम् । प्रत्यस्तप्रसत्रामपोह्य फलिनी भृङ्गोकटाक्षः शनै- रम्यर्णप्रसवामशोकलतिकामभ्येतुमाकाङ्क्षति ॥ ३ ॥ विदूषकः-- (विलोक्य सविस्मयन्) (क) भो वअत्स! पेक्ख पेक्ख । एदाओ अदिठपुरुवाओ मन्दसमीरवेविदङ्गीओ मोत्तिअ- (क) भो वयस्य ! पश्य पश्य । एता अदृष्टपूर्वी मन्दसमीरपिताङ्गयो मौक्तिक- उभयकार्ययुक्तः 6ः | मध्ये कालान्तरस्याभावात् । तदेव समर्थयतेि - तथाहीत्यादि । हिमजलं शिशिरकार्यभृतम् । अहर्मुखे दिनारम्भे, अर्कमहसामत्यर्थमप्रत्युहं जातम् अतिशयेन प्रत्यूहकरं न भवति । पूर्वमारम्भ एव तिरोधायि इदानीं- न समर्थम् । अनेन प्रत्यूहस्य लेशोऽङ्गीकृतः । तथैव अम्भोल्हान् आतङ्कर्पणे वै- वर्ण्यविशीर्णत दिव्यसनजनने दुर्बलम् अल्पशक्ति, न तु सर्वथा परिक्षीणशक्ति । हिमजलस्य तथात्वे हेतुमाह -- जराजर्जरं जरया कालपरिणत्या जर्जरं शकलीभूतं विरलमित्यर्थः । अथ वा हिमजलं जराजर्जरमिति बोध्यन् | अप्रत्यूहमिति क्रि- याविशेषणम् । अहर्मुखार्कमहसां प्रत्यूहो यथा न भवति तथा, पूर्वं तिरोधायकस्य यथा तदसामर्थ्यं तथा जर्ज्जरमित्यर्थः । तत्फलमाह - अम्भोरुहामंत्यर्थमातङ्कार्पण- दुर्बलमिति । किञ्चित्पीडाकरमेव अत्यन्तापगमाभावादित्यर्थः । कार्यान्तरनाह - प्रत्यस्तप्रसवामिति । भृङ्गीकटाक्षः शिशिरापचयेन प्रत्य तप्रसवाम् अपगतप्रायकुसु- माम् । फलिनीं प्रियङ्गुलताम् । अपोह्य परित्यज्य | अभ्यर्पणप्रसवा वसन्तोद्भवाम् अशो- कलतिकाम् अभ्येतुमाकाङ्क्षति । अत्र प्रत्यत्तप्रसवत्वम् अभ्यर्णप्रसवत्वं चाभयोरपाह- नाकाङ्क्षयोः कारणम् । उभयापेक्षया भृङ्गयाः कटाक्षः, न स्वयम् । अभ्येतुगाकाङ्क्षति, न त्वभ्येति । तत्रापि शनैः पूर्वत्र मधुरसस्य गतप्रायत्वात् कटाक्षस्ततो निवृत्या- द्य श्वो वेति प्रसवोन्मुखीमशोकलतिकां प्राप्तुमिच्छति शनैः, तत्र वि ( ल ?) वलत इत्यर्थः । अत्र प्रसवराहित्येन पूर्वनायिकां दाक्षिण्यमात्रेणानुसृत्य द्वितीयनायिकां कुलोचिततनयोत्पत्तिहेतुमभिलषति नायकत्व मन इत्यन्याक्तिरूपेण भाविवृत्तान्ता- नुसारेण पताकास्थानकं कविना प्रतिपादितम् । तत्र शनैरित्यनेन दाक्षिण्यापरि- त्यागः प्रकाशितः ॥ ३ ॥ ५७ १. 'क: अग्रतो वि' इतिग. पाठः. 'क: भो' हाते घ. पाठः २. 'एस अच्छेरमच्छेरम्' इति ख-ग, पाठः