पृष्ठम्:तपतीसंवरणम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५६ तपतीसंवरणे - राजा — तर्हि वन्दनीयं चराचरगुरोः पादकमलम् । गच्छाग्रतः । विदूषकः - (क) एदु एदु भवं । - ( परिक्रामतः ) विदूषकः– (ख) भो वअस्स ! सव्वकाळरमणिज्जं एदं वणं पवि- ट्ठस्स मे दिसामोहो विअ काळमोहो संवुत्तो । ता को काळो वट्टइ । - (सावधानं समन्तादवलोक्ये सविमर्शम्) *शङ्क शिशिरवसन्त- योरयमान्तरालिकः कालः । राजा- (ग) एत्वेतु भवान् । (ख) भो वयस्य! सर्वकालरमणीयमेतद्वनं प्रविष्टस्य मे दिङ्मोह इव कालमोहः संवृत्तः । तत् कः कालो वर्त्तते । "अण्णेससि" इति वा पाठः । सारभूतं कथयिष्यामीत्यनेन मुनिमुखा - च्छुतस्यार्थस्य स्वोक्तिरूपेण सङ्क्षेपः । अत एव किलेति परोक्तिप्रामाण्यं सूचितम् । अत्र कथया देशस्य सौभाग्यं भगवत्सन्निधानेन महत्त्वं च प्रतिपादितम् । अत एवाह ता तहिं एव्व गच्छह्म । एवेत्यनेन नान्यः प्रदेशोऽन्वेषणीय इति प्रकाशितम् || तदनुमोदमान आह – तर्हीति । वन्दनीयमिति । विनोदनं तिष्ठतु इद- मेवापेक्षणीयमिति भावः । तत् त्वरया आह- - गच्छाग्रत इति ॥ - - तपनवनप्रवेशानन्तरं कालवर्णनाय द्वारमुद्धाटयति – सर्वकालरमणी- यमिति । इदं वनं प्रविष्टस्य मे कालमोहः संवृत्तः । काल ऋतुलक्षण: तद्विषयो मोहः अबोधः । तत्र हेतुः सर्वकालरमणीयमिति । सर्वर्त्तुष्वेकप्रकारेण रमणीयमिति वनान्तराद् विशेषः । वनान्तरेषु वसन्तग्रीष्मादिषु रमणीयतायास्तारतम्यमस्ति । अत्र परिपूर्णमेव नित्यं रमणीयत्वम् । अतो मन्दमतिभिः कालभेदो ज्ञातुमशक्य इति कः कालो वर्तत इत्युक्तम् । दिङ्मोह इवेति । दिङ्मोहः सर्वत्र प्रसिद्धः । मम कालमोहोऽपीति विशेषः ॥ तत्राह – मन्य इति । मन्य इत्यनेन तदुक्त्यनुसारेण दुर्ज्ञेयत्वं सूचितम् । शिशिरवसन्तयोः अतीतप्रायस्य शिशिरस्य आगामिनो वसन्तस्य च । आन्तरालिकः १. 'कोकालो' इति ख-ग. पाठः, २. 'क्य, श' इति घ. पाठ:.

  • ‘मन्ये’ इति तु व्याख्यायां प्रतीकं धृतम्.