पृष्ठम्:तपतीसंवरणम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । विदूषकः - (क) जह तुए मिआणं पदं अण्णेसिअदि, तह अहं पि तुह पदविं अण्णेसन्तो भिउणो णाम महेसिणो पविट्ठो ह्नि अस्समपदं । तस्स मुहादो महदी कहा मए सुदा । तं पुण सअळं अवहारिअ कैहिदुं अकुसळा मे बुद्धी । त- स्सि सारभूदं कहेमि । इदो उत्तरदिसाअं कळ्ळाणवामणं णाम पुरुसोत्तमस्स अत्थि मन्दिरं । तहिं किळ भअवन्तं आराहिअ देवेण तवणेण तेळ्ळोक्कप्पआसणसत्ती आ- सादिआ। तदप्पहुदि तं रण्णक्खेत्तं तवणवणं त्ति संवृत्तं । तहिं एव्व किळ भअवदो वामणस्स तिविक्कमत्थं विउ - म्भिन्तस्स करदळादो जं दाणसळिळं पडिअं, तं करदळो- दअं त्ति सरसी संवुत्ता । ता तहिं एव्व गच्छह्य | (क) यथा त्वया मृगाणां पदमन्विष्यते, तथाहमपि तव पदवीमन्विष्यन् भृगोर्नाम महर्षेः प्रविष्टोऽस्म्याश्रमपदम् । तस्य मुखान्महती कथा मया श्रुता । तां पुनः सकलामवधार्य कथयितुमकुशला मे बुद्धिः । तस्यां सारभूतं कथयामि । इत उत्तरदिशायां कल्याणवामनं नाम पुरुषोत्तमस्यास्ति मन्दिरम् । तत्र किल भगवन्तमाराध्य देवेन तपनेन त्रैलोक्यप्रकाशनशक्तिरासादिता । तदा प्रभृति तद् अरण्यक्षेत्रं तपनवनमिति संवृत्तम् । तत्रैव किल भगवतो वामनस्य त्रिविक्रमार्थं विजृम्भितस्य करतलाद्यद्दानसलिलं पतितं, तत् करतलोदक- मिति सरसी संवृत्ता । तत्तत्रैव गच्छावः। भवत्प्रश्ने विस्मयादिनिमित्तान्तरेणान्यथा कृतम् । अतः उत्कलिकाया निरन्तरानु- बन्धाद् विनोदनोपायस्य वतंसकस्य त्वत्प्रमादेन परित्यागाच्च तद्विनोदनक्षमं चि- नोदनकरैर्वस्त्वन्तरैश्चेतसः समाश्वासनकरं वनोद्देशमन्वेषयावहे । अस्यामवस्थायां ममं नान्तरङ्गत्वमित्युपेक्षां मा कृथा इत्यावर्जयितुमन्वेषयावह इत्युक्तम् ॥ १. 'अंत' इति घ.ग. पाठः, २. 'तं स' इति घ. पाठः ३. 'भणिउं अ' इति ख-ग. पाठः, ४. 'दो वटुवा' इति ग. पाठः,