पृष्ठम्:तपतीसंवरणम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

3% तपतीसंवरणे णट्ठसव्वस्सो कहं वि अत्ताणं धारेमि । मए खु तं कण्णे- उरं राअसारं रक्खिदुकामेण दण्डअट्ठस्स अग्गे बह्म- सुत्तेणं उब्बन्धिअ आणिज्जन्तं मक्कटप्पडिरोहएहि आ- च्छिन्दिअं । राजा - अहोतुखल्वतिप्रमादमाचेष्टितमत्र भवता । विदूषक: – (क) मा कुप्प । भो किं तेण दासीएपुत्तेण कण्णेउरेण, . जण्णिमित्तं कुविदा देवी महन्तेण पआसेण पसादिआ। राजा - अलमनेन । मम खल्वापदकथो हातमाविर्भूतामपि रण- रणिकां भवज्जिह्वाचापलभयादप्रकाशितवानस्मि । अतः तद्विनोदनक्षमं वनोद्देशमन्वेषयावहे । धारयामि । मया खलु तं कर्णपूर रागसारं रक्षतुकामेन दण्डकाष्ठस्याग्रे ब्रह्मसूत्रेणोद्वध्यानीयमानं मर्कटप्रतिरोधकैराच्छिन्नम् । (क) मा कुप्य | भो किं तेन दास्याः पुत्रेण कर्णपूरेण, यन्निमित्तं कुपिता देवी महता प्रयासेन प्रसादिता । एतद्विषये भवतातिप्रमादमाचेष्टितं त्वया अवधाने प्रतिपादिते अनवधानमेव निर्व्यूढं परित्यागात् ॥ ईषदमर्षगर्भमुक्तिः दास्याः पुत्रेणेति । अतिनिरसनीयत्वेन परिग्रहे दोषो- ऽप्यस्ति । यन्निमित्तं कुपिता देवी अनुनयप्रणामादिभिः कथमपि प्रसादिता, अस्य विनाशेन शल्योद्धरणमेव कृतम् इति ॥ -- नायकस्य तस्मिन्नभिनिवेशं पूर्वमेव निरूप्य 'केवलं विस्मयेनाक्षिप्त' इति हृद- यगोपनं मन्वा(नः? नेन) अवसरे तस्य हृदयं प्रकाशयितुं तस्य निरसनं कृतामिति तद- भिप्रायं विदित्वाह – अलमिति । मदपेक्षां विदित्वा त्वया प्रतिक्षेपः क्रियते । तदने- नालम् । त्वां वस्तुवृत्तं बोधयामि । मम खलु आपदकथोद्धातम् उद्धात आरम्भः, “स्यादभ्यादानमुद्धात आरम्भ" इति, पदवृत्तान्तमारभ्य | आविर्भूतामपि रणर- णिकां चित्तविभ्रमम् अप्रकाशितवानस्मि । भवजिह्वाचापलभयात् जिह्वाचापलम् उपलब्धभाषित्वं, तेन । न त्वविश्वासाद् अप्रकाशितवानस्मि । अत एव पूर्वं ३. 'क: भो' इति १. 'ण बन्धिऊण आ' इति ख-ग. पाठ:. २. 'हकेहि' इति ग. पाठः. ग. पाठः, ४. पदमिदं मूलकोशेषु न दृश्यते.