पृष्ठम्:तपतीसंवरणम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । राजा - वयस्य ! मा भैषीः । किमेतत् । -- विदूषकः (राजानमवलम्ब्य सबाष्पगद्गदम्) (क) हा वअस्स ! अव- हिदो मं रक्ख । - राजा — अतिमात्रमाविग्नोऽसि, किं ते भयकारणम् । विदूषकः– (दिशो विलोक्य सहासम्) (ख) तुज्झ सण्णिहिमेत्तेण पणट्टो मे सत्तुवग्गो। राजा - कथं शत्रुवर्ग इति । -- विदूषकः - (ग) मए खु एत्तिअं वेळं इन्दइदा विअ वाणरसेण्ण- पत्थिवेहि बहु परक्कन्तं । राजा --- ( सस्मितम् ) अभिज्ञोऽस्मि भवत्पराक्रमस्य | मन्ये स्वयूथ्य- बुद्ध्या समागतैः पीडितोऽसि वानरैरिति । आस्तामेतत् । क्व वतंसकः । विदूषकः - (घ) कहं वतंसओ तिं अत्थळुद्धो अत्तभवं । अहं पुण (क) हा वयस्य ! अवहितो मां रक्ष । (ख) तव सन्निधिमात्रेण प्रनष्टो मे शत्रुवर्गः । (ग) मया खल्वेतावतीं वेलामिन्द्रजितेव वानरसैन्यपार्थिवैर्बद्दु पराक्रान्तम् । (घ) कथं बतंसक इत्यर्थलुब्धोऽत्रभवान् । अहं पुनर्नष्टसर्वस्वः कथमप्यात्मानं एवमुत्कलिकाविनोदनोपाये चिन्त्यमाने सूचितस्य नर्मसचिवस्य प्रवेशः अब्रह्मण्यमिति । तस्य प्रहसनवृत्तान्तोपक्रमः | अब्रह्मण्यम् अवद्यम् । एतदवद्यं ब्राह्मणं मां प्रति नानुष्ठेयमिति ॥ पूर्वं परिगृहीतस्य कर्णपूरस्योपरि साध्यान्तरापेक्षयेदानीं विशेषं प्रतिपाद- यितुं सिद्धस्य नाशे उत्कलिकाविनोदनायोपायान्तरान्वेषणद्वारा नायिकादर्शनप्र- तिपादनाय च कर्णपूरापहरणं हास्यप्रधानं प्रतिपादयति - अहोतुखल्विति । अनौचित्यस्यातिगौरवेण विस्मयावहत्वम् । अत एवाह – अतिप्रमादमिति । अत्र - १. 'हिदमत्तएण' इति ख. पाठ:. २. 'काळ' इति क. पाठः ३. 'णा वि' इति क-ख-ग. पाठः. ४. 'त्थिएण ब' इति क-ख. पाठः. ५. 'तैः परिपी' इति ग. पाठः ६. 'त्ति अहो अ' इति ग. पाठः.