पृष्ठम्:तपतीसंवरणम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे उत्कण्ठामरतिकरीं मनस्यलक्षा- माधत्ते मनसिशयोऽस्य केयमाशा ॥ २ ॥ अपि च गृहीतकर्णपूरः पाराशर्यस्तुरङमजवेन दूरीकृतः । तत् केनेदानीमुत्कलिकां विनोदयामि । (नेपथ्ये) (क) अब्बह्मण्णं अब्बह्मण्णं । राजा --- (कर्णं दत्वा) अये पाराशर्यस्येव स्वरः । (ततः प्रविशति त्रस्तरूपो विदूषकः) - विदूषकः- (ख) अब्बह्मण्णमब्बह्मण्णं (भयं निरूप्य) ईदिसे वि • भअट्ठाणे दुग्गामन्तेण वि अणहिट्ठिअजीहस्स रक्खा- साहणं ब्रह्मसुत्तं अह्माणं दण्डअट्ठं चै णट्ठे । (क) अब्रह्मण्यमब्रह्मण्यम् । (ख) अब्रह्मण्यमब्रह्मण्यम् । ईदृशेऽपि भयस्थाने दुर्गामन्त्रेणाप्यनधिष्ठितजिह्रस्य रक्षासाधनं ब्रह्मसूत्रमस्माकं दण्डकाष्ठं च नष्टम् । , भवति, तथा मम मनसि प्रहारं विनोत्कण्ठां रणरणिकां करोति । अरतिकरीम् । रतिः प्रीतिः, “सर्वेन्द्रियाणामानन्दो रतिरित्यभिधीयते” इति, तत्करणे अननु- कूलां विषयस्याप्रकाशितत्वात् । अत उक्तम् अलक्षामिति अदृष्टलक्षां रणरणिका- विषयस्य पदवतंसकमात्रावलम्बनत्वादलक्षामित्युक्तम् । अस्यामवस्थायामप्येवं वै- वश्यजननाद् अस्येयमाशा विषयादर्शनेऽप्यनुबन्धिनीच्छा कीदृशीति (न) निरू- प्यते । अस्य दुर्विज्ञेयस्वभावत्वाद् विषयं प्रकाश्य शरान्मोक्तुं वैतावन्मात्रेणा- स्मान् पीडयितुं वेति न ज्ञायते । मनसिशय इत्यनेन निजाश्रयमपि वेधुं सन्न- द्धस्य कदाचिदप्यरहितस्य सङ्कल्पजीवितस्येति प्रवृत्तिवैषम्यं व्यज्यते ॥ २ ॥ एवमात्मनश्चित्तवैवश्यं निरूप्य तत्प्रशमनोपायमलभमान आह - - गृहीतक- र्णपूर इत्यादि । उभयमपि दूरीभावेन खेदजनकं गृहीतकर्णपूर इति पाराशर्य इति च । तदिदानीमुक्तहेतुकाम् उत्कलिकां रणरणिकां केन शमयामि ॥ - १. 'रूपयन्' इति क. पाठ:. २. 'त्तं पहरणं च द' इति क-ख-ग. पाठः ३. इदं क-ख-ग- पुस्तकेषु नास्ति.