पृष्ठम्:तपतीसंवरणम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । भ्राम्यद्दष्टिरशिश्रियद् वृककुलं भीता कुरङ्गाङ्गना मद्बाणैः कलुषीकृतः स्म कलभः सैंहीं गुहां गाहते ॥ १ ॥ सोऽहमनेन मृगयाप्रसङ्गेनातिदवीयसीम् अम्बिकापितु- रचलस्याधित्यकाभुवमानीतोऽस्मि । अन्यच्च । तस्मात् पदवतंसकदर्शनादारभ्य मां प्रति आदते धनुरभिमार्ष्टि षट्पद्ज्यां सन्धातुं प्रगुणयति प्रसूनबाणान् । स्याश्चर्यकरत्वम् । क्रोडं भुजान्तरम् | भयाद् मद्वाणकृतात् । भयादिति सर्वशेषः । भीता इति विशेषणत्वेन कथनमन्येभ्यः कुरङ्गाङ्गनाया भीतिप्रकर्षकथनाय । अत एव भ्राम्यद्दृष्टिरिति भयानुभावकथनम् | अशिश्रियादति पाठः ॥ १ ॥ एवं मृगयावस्थां प्रतिपाद्य आत्मनो दूरस्थतां निरूप्याह -- सोऽहमित्यादि । सः आरामे वृत्तमन्तर्धारयन्नहम् । निजाधिकारौचित्येनोपक्रान्तेनानेन । मृगया- प्रसङ्गेन मृगयानिर्बन्धेन । अम्बिकापितुरचलस्याधित्यकाभुवम् ऊर्ध्वभूमिम् । आनी- तोऽस्मि प्रापितोऽस्मि । अम्बिकापितुरित्यनेन दिव्यभूमित्वं, प्राप्तेः प्रीतिकरत्वच्च द्योत्यते । अतिदवीयसीं स्वराष्ट्रादतितरां दूरवर्त्तिनीम् । अन्यच्चेति । एवं प्रस- ङ्गानुप्रसङ्गेन दिव्यभूमिमागतः । अतश्चित्तस्य व्याक्षेपराहित्येऽपि व्याक्षेपकरमवस्था- न्तरं वर्त्तते । तत् प्रतिपादयति - आदत्त इत्यादि । मनसिशयः तस्मात् पदवतंस- कदर्शनादारभ्य मां प्रत्येवमाचरति । मनसिशय इत्यनेन च्छिद्रान्वेषणसौकर्यमेतद- ध्यवसायश्च प्रकाश्यते । तस्माद् अविस्मार्यसंस्कारमनुभूताद् । इदमेव मनसिशयप्रवृ- त्तेर्निमित्तं, न तु रूपचातुर्यदर्शनादि । पदवतंसकयोश्चातुर्येण श्रमजलसम्मेलनेन चा- वस्थाविशिष्टस्य रमणीरूपस्य सङ्कल्पकल्पितं लोकोत्तरं रूपं चित्ते वर्त्तत इति पद- वतंसकदर्शनादारभ्येत्यनेन प्रकाशितम् । मां प्रतीति । ममेदृशीमवस्थामालक्ष्य वि- षयमप्रकाश्यापि मन्मनः प्रहर्त्तुमस्यावसाय इति । तं प्रतिपादयति--आदत्त इत्यादि । धन्विनां विपक्षताडने शरप्रयोगात् पूर्वे व्यापारमनुसरति । तत्र धनुरादानं प्रथमं करोति । पुनः षट्पदरूपिणीं ज्यां दार्ढ्यपरीक्षार्थमभिमार्ष्टि । पुनः सन्धानयो- ग्यान् बाणान् ऋजूकरोति । इयन्मात्रेणैव भीरोर्यथा प्रहारोद्यमदर्शनेनैव व्यामोहो - 22896