पृष्ठम्:तपतीसंवरणम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे (ततः प्रविशति हयावरूढो राजा) - राजा - ( सवितर्कम्) अहोतुखलु भयातिरेको नाम तपोवनसधर्मा सत्त्वानां शाश्वतमपि विरोधं शमयति । तथा हि प्रवृत्ते मम मृगयाव्यतिकरे - क्रोडं क्रोडवरुपाश्रितवती शार्दूलिकानां भया- न्निश्शङ्कं शरभावलीषु महिषाः संसर्गमातन्वते । ५० नीये नायिकायाः प्रथमं श्रवणेनाङ्कुरितस्य पश्चान्मरतकमणिशिलास्थितनायकसा- क्षात्कारेण परिपोषं गतस्य चिन्तास्मृत्याद्यवस्थान्तरे दत्तपदस्य व्याप्तेः रसवत्तया दृश्यत्वेऽपि नायिकाया दिव्यत्वाद् दिव्यभूमिषु सञ्चारयोग्यतया राजधानीवृत्तान्त- रूपेण प्रवेशके सखीसल्लाँपेन सूचनं कृतं, नायकस्य तु स्वप्नश्लोकव्याख्याने किञ्चित् सूचितस्य सुनिमित्तेन स्पृहाविषयीकृतस्य पदवतंसकदर्शनेन तद्गुणोद्धो- पणेन चालम्बनैकदेशपरिग्रहणद्वारा रितस्य गाथाक्षरपूरणेन किञ्चिदुच्छून- स्याभिलाषस्य साक्षाद्दर्शनेन स्थायिरूपत्वं स्थिरीकर्त्तुं द्वितीयाङ्कोपक्रमः । सङ्कल्प एव सर्वत्र रतेः परिपोषकः । स श्रवणादिनैव रसोत्थापको दृश्यते । अन्यथा सङ्क- ल्पाभावे दर्शनेऽपि रतेर्नोदयः । अतः सङ्कल्पपरम्परामवलम्बमानो वतंसकमद्भु- तव्याजेन वयस्ये सङ्क्रमय्य प्रासङ्गिकं मृगयाव्यापारं समाप्य तुरगवेगेन हिमव- दधित्यकां प्राप्तो मृगाणां भयप्रकर्षे निरूप्य सविस्मयमाह -- अहोतुखल्वि- त्यादि । भयातिरेकः भयस्य भावान्तरतिरोधायकोऽतिशयः । तपोवन इत्यत्र धर्मे विशिनष्टि–सत्त्वानां वक्ष्यमाणानाम् । शाश्वतमपि जन्मसिद्धमपि । विरोधं वैरम् । शम- यति निरस्यति । अत्र भयातिरेकस्य कर्तृत्वम् । अनुक्तसिद्धमपि शमस्य भयशामकत्वं प्रसिद्धं मुनीनामहिंसारूपस्य शमस्य फलत्वेन प्रतिपादितत्वाद् “अहिंसायाः फलं तस्य सन्निधौ वैरवर्जनमि” ति । उक्तार्थस्य व्याप्तिं स्वावस्थया प्रतिपादयति-- तथा हीत्यादि । मम मृगयाव्यतिकरे मृगयासम्मर्दे प्रवृत्ते । तथा हि, दृष्टमिति शेषः । तं प्रकारमाह—क्रोडमिति । अत्र क्रोडवधूशार्दूलिकादीनां परस्परविरोधवध्यघातक- भावादीनां निरासेन परस्परसम्मेलनं मद्बाणभयातिरेकेण घटितमिति भयातिरेक- १. 'याधिरू' इति क-ख-ग. पाठः, W