पृष्ठम्:तपतीसंवरणम्.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । --- मेनका - (क) तदप्पहुदि वअणाणं पि अगोअरं तिस्से अणङ्गात- ङ्कं णिसामअन्ती एआरिसह्यि संवुत्ता | अज्ज उण पच्चूसे एव्व मं पि अणालविअ तवणवणं गआ। सुदं च मए सो वि राएसी मिअआप्पसङ्गेण पत्तो तं उद्देसं त्ति । ता तहिं एव्व गदुअ पिअसहिं आसासेह्म । रम्भ - (ख) एव्वं करह्म । (निष्क्रान्ते ) प्रवेशकः । (क) तदाप्रभृति वचनानामप्यगोचरं तस्या अनङ्गातङ्कं निशामयन्त्येतादृश्यस्मि संवृत्ता । अद्य पुनः प्रत्यूष एव मामप्यनालप्य तपनवनं गता । श्रुतं च मया सोऽपि राजर्षिर्मृगयाप्रसङ्गेन प्राप्तस्तमुद्देशमिति । तत् तत्रैव गत्वा प्रियसखी- माश्वासयावः । (ख) एवं कुर्वः । -- तदाप्रभृतीति प्रथमप्रश्नोत्तरोपसंहारः । वचनानामप्यगोचरम् इदमीदृश- मिति वक्तुमशक्यं मदनव्यसनम् । निशामयन्तीति शिशिरोपचारादीनामपि वैकल्यात् केवलं पश्यन्ती एतादृशी जातास्मि । एवं प्रथमप्रश्नस्योत्तरं तत्प्रसङ्गादतीतवृत्ता- न्तं च निवेद्य प्रियसखी केत्यस्योत्तरमाह • अद्य पुनरित्यादिना । पूर्वं न कदा- चिदेवं दृष्टमिति विषादः । तपनवनमित्युपपत्त्या कल्पनम् । तत्राप्यस्मत्समीहितस्य कोऽपि विशेषः सेत्स्यतीत्याह - श्रुतं चेति । सोऽपीति । न केवलमियम् । मृगया- प्रसङ्गेन अन्यार्थमुद्यतो दैवात् तं देशमागत इत्यानुकूल्यं द्योतितम् । तदिति आ- श्वासनोपायस्य सिद्धत्वादित्यर्थः । अनेन प्रवेशकेन नायिकारब्धस्यानुरागस्य सूचनं, नायिका तपनवनं गता नायकश्च तं देशं प्राप्त इति द्वितीयाङ्के प्रयोक्ष्य- माणस्य सरसस्य वस्तुनः सामाजिकमनोऽनुसन्धानार्थी सङ्घटनं च सखीसल्लाँप- रूपेण सम्पादितम् । इह शृङ्गाररसस्याङ्गित्वेन प्रथमं नायकयोरयोगविप्रलम्भे वर्ण- ३. 'सअझ' इति १. 'ङ्गामयं णि' इति क. पाठः. २. 'तस्सि ए' इति क. पाठः. क. पाठ.. ४. 'म्भा सहि ! ए' इति कृ-ग. पाठ: