पृष्ठम्:तपतीसंवरणम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । रम्भी - (क) चउरं आअरिअं । तदो तदो । मेनका -- (ख) तंदो तं गाहं तेण पूरिअक्खरं सुणिअ रोसपरि- प्फुरिआहरं ताए भाणदं --- अविणीदे! कीस तुए अहं लहुईकिदत्ति । रम्भा - (ग) तदो तदो। - (क) चतुरमाचरितम् । ततस्ततः । (ख) ततस्तां गाथां तेन पूरिताक्षरां श्रुत्वा रोषपरिस्फुरिताधरं तया भणितम्--- अविनीते! कस्मात् त्वयाहं लघुकृतेति । (ग) ततस्ततः । कौशलमिति । केचिद् रूपवन्तोऽपि शेमुषीविलासहीनतयालेख्यसब्रह्मचारिणो दृ- श्यन्ते । अस्य तु यथाश्रुतमेव रूपम् । तदनुरूपं बुद्धिकौशलमपि परीक्षितुं, त्वद्विषय इयमेवमबस्थेत्यन्यापदेशेन सूचयितुं च स कर्णपूर आच्छिद्य बलादुद्धृत्य गाथां निर्माय तत्पद्याद्यक्षराणि लिखित्वा प्रमादेनेव प्रमादं भावयित्वा तस्य पुरः प्रक्षिप्तः ॥ तां गाथामिति । पूरिताक्षरां दर्शितपदाद्यक्षरानुगुणवर्णविन्यासक्रमनिर्मित- स्वरूपाम् । श्रुत्वेति । 'किं कुणइ' (अङ्क. १. लो. १९) इत्यादितटस्थवृत्त्या गर्भिंतविशेषेण सामान्येनावस्थाप्रकाशने तया झटित्यभिप्रायवेदिन्या मनोभववैभव- विस्मृतगूहननिर्बन्धया मद्विषयरोषपरिस्फुरिताधरं भणितम्, अविनीते! अशिक्षिते ! उपलब्धकारिणि ! कस्मात् त्वया सततमस्मगौरवरक्षणप्रवृत्तयेदानीमतिगम्भीरे- ऽस्मिन् पुरुषवर इममर्थमेवं प्रकाशयन्त्याहं लघूकृता इति । अत्र नैतदेवमिति वा, कथं त्वया ज्ञातमिति वा, नायं प्रेमयोग्य इति वा नोक्तम् । लघुकरणमेवा- निष्टं, यदि गौरवाविरोधेन साध्यनिवार्हस्तर्हि नानिष्टमिति ध्वनितम् ॥ , तदाकर्ण्य रम्भा किमनिष्टशङ्कया त्वया तदनुसरणं कृतम्, उत प्रमाद- नटनवद् अन्यथा कपटमुद्भावितं, किमनेन दिगम्बरस्य नग्न इति परिहासे कोपे- नेति प्रियसखीरोषमनादृत्य रहस्यभेदनं कृतमिति पृच्छति - ततस्तत इति ॥ १. ' म्भा सहि ! च' इति ग. पाठः, २. 'दो तेण पूरिदाइ अक्खराइ सु' इति घ. पाठः, ३. 'अं सु' इति क. पाठ: ४. 'दाहराए ता' इति घ. पाठः