पृष्ठम्:तपतीसंवरणम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे विउणिअमणोभवोअळ्ळआए ताए दसं ओळोइअ मए आचक्खिअं-सहि! दे कवोळमूळुळ्ळसिआणं सेअक- णिआमोत्तिआणं सोहं तिरक्खरइ कण्णेउरो त्ति | रम्भा - (क) तदोतदो। मेनका - (ख) तदो तस्स राएसिणो रूवाणुरूवं बुद्धिकोसळं प रिक्खिउं तिरसे अवत्थापत्थावणत्थं च सो कण्णेउरो आ च्छिन्दिअ ळिहिअ गाहापदज्जक्खराइ पमादेण विअ मए तस्स पुरदो पक्खित्तो। दशामवलोक्य मयाख्यातं-सखि ! ते कपोलमूलोल्लसितानां स्वेदकणिकामौ - क्तिकानां शोभां तिरस्करोति कर्णपूर इति । (क) ततस्ततः । (ख) ततस्तस्य राजर्षे रूपानुरूपं बुद्धिकौशलं परीक्षितुं तस्या अवस्थाप्रस्ताव- नार्थे च स कर्णपूर आच्छिद्य लिखित्वा गाथापदाद्यक्षराणि प्रमादेनेव मया तस्य पुरतः प्रक्षिप्तः । आत्मनः पदव्यामिति । स्निग्धदृष्टिं स्नेहप्ररोहप्रकाशकदृष्टिपातं तमव- लोक्य दिष्टयास्य महापुरुषत्यापि स्पृहालेश इव लक्ष्यत इति द्विगुणितमनोभवाय- ल्लकायाः । ‘स्यादायल्लकमाध्यानमुत्कण्ठोत्कलिका रतिरि'ति रतिपरिपोष एवायल्ल- कम् | दशामिति । निष्पन्दमन्द सुन्दर दृष्टिपातस्वेदरोमाञ्चवेपथुप्रभृतिभिरनुभावैरति- स्फुटोन्नेयवैवश्यामवस्थामवलोक्य मया कामपि कामतन्त्रप्रक्रियां प्रकाशयितुं प्रशं- सया सांध्यमाच्छाद्य किमप्युपन्यस्तं — सखीत्यादि । स्वेदकणमालिकामौक्तिकानां कपोलतलदर्पणप्रान्तप्रत्युप्तप्तस्वेदमुक्तादामजनितां कान्ति कर्णपूरः स्वविग्रहेण मत्स- रेणेव तिरस्करोति । तदिदमपनयामीति शेषः ॥ एवमुक्ते किं तव समीहितमित्यपृष्ट्वा ततस्तत इति प्रश्नः शेषकथनेनैव तदाभप्रायः सिध्यतीति बुद्ध्या ॥ तद्बुद्धिमनुसृत्योत्तरमाह—तत इत्यादि । तस्य राजर्षेः रूपानुरूपं बुद्धि- १. 'इ' इति ग. पाठ:. २. 'वादकाए' इति घ. पाठ:. ३. 'आळविअं' इति क-ख-ग. पाठः. ४. 'द' इति घ. पाठः, ५. 'अ आळि' इति क. पाठः, ६. 'दाइ अक्ख' इति क-ग. पाठः