पृष्ठम्:तपतीसंवरणम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । रम्भा - (क) तदो तदो। - मेनका -- (ख) तदो तदाणिं अणङ्गबाणेहिं ळज्जाए अ दूमिआ तस्स अग्गदो ठादुं असमत्था मए सह तिरक्खरणीतिरो- हिआ उप्पडिआ णहअलं। रम्भा - (ग) तदो तदो । मेनका - (घ) तदो अत्तणो पदवीअं सिणिद्धदिट्ठिं तं पेक्खिअ ततस्ततः । ततस्तदानीमनङ्गबाणैर्लज्जया च दूना तस्याग्रतः स्थातुमसमर्था मया सह तिरस्करणीतिरोहितोत्पतिता नभस्तलम् । (ग) ततस्ततः । (घ) तत आत्मनः पदव्यां स्त्रिग्धदृष्टिं तं दृष्ट्वा द्विगुणितमनोभवायल्लकायास्तस्या नागपुरस्यात्यन्तगूहनेन हृदयानुसारः कृतः । विश्रममनूद्य गमनविधिना गमनशेष एव विश्रमः । किमन्यदस्माकमत्र प्रयोजनमिति मया रहस्यगोपनानुगुणमुक्तम् || ततस्तया त्वद्वचनमच्छलमङ्गीकृत्य निजाभिरुचिसदृशं किं कृतम्, उत रह- स्यभेदनमाशङ्कय गमनमेवाङ्गीकृतमिति प्रश्नः ॥ तत्र “क्रियाकेवलमुत्तरम्” इत्युक्तदिशा मया सहावतरणमेवोत्तरतयाङ्गी- कृतम् । यावत्तावादति यौगपद्येन, विधिना दत्तहस्तोऽयमारम्भ इति द्योत्यते । स- वयस्य इति वधूकथावकाशः प्रकाशितः ॥ ततो युवाभ्यां किं तथैव स्थितम्, उत तत्रव तिरस्करण्या स्थितम्, अथवा गतं, तादृशस्य दर्शने को विशेष इत्यादिप्रश्नः ॥ ततस्तदानीमिति । चिराभिलषितस्य समीपदर्शन इत्यर्थः । अनङ्गबाणैर्ल- ज्जया च पीड्यमाना तिरस्करणीतिरोहिता । तत्कर्त्तृकाद्दर्शनात् प्रागेवेति शेषः । न- भस्तलस्योत्पतनकर्मतया प्रवृत्तिशेषं गमनेऽनिच्छां च ध्वनयति ॥ एवमुक्ते किं नभस्तले स्थिताभ्यां युवाभ्यां प्रकृतशेषं किञ्चिल्लब्धम्, उत तूष्णीं स्थितमेव, अस्मदपेक्षां प्रति तन्मतिः कीदृशीति प्रश्नः ॥ १. 'उं' इति क-ख-ग. पाठः, २. 'दा' इति घ. पाठः,