पृष्ठम्:तपतीसंवरणम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

OC तपतीसंवरणे रम्भा --- (क) तदो तदो । --- मेनका – (ख) तदो मए उण से भावं जाणिअ कहिदं - सहि ! परिस्सन्ता विअ ळक्खीअसि । एदं खु भाईरहीतीरगअं कत्तिके आवासपरिसरुज्जौणं । एत्थ विस्समिअ गच्छह्य त्ति। रम्भा --- (सस्मितम्) (ग) सेविअं तुए सहीहिअअं । तदो तदो। मेनका - (घ) तदो जाव हरिमणिसिळादळे ओदरह्म, दाव तहिं एव्व सवअस्सो राएसी आअदो। M (क) ततस्ततः । - (ख) ततो मया पुनरस्या भावं ज्ञात्वा कथितं - सखि ! परिश्रान्तेव लक्ष्यसे । एतत् खलु भागीरथीतीरगतं कार्तिकेयावासपरिसरोद्यानम् । अन्न विश्रम्य गच्छाव इति । (ग) सेवितं त्वया सखीहृदयम् । ततस्ततः । (घ) ततो यावद्धरिमणिशिलातलेऽवतरावः, तावत्तत्रैव सवयस्यो राजर्षिरागतः । तदो तदो इति । दिवानिशं त्वया सह वर्त्तमानया मुग्धया वाङ्मात्रेण गूहनमेव कर्त्तुं शक्यं, चतुरया त्वया हृदयरहस्यं ज्ञातमेव । ततो गूढभेदप्रसङ्गे किं त्वया स एव प्रकटितः, उताजानत्येव गमनप्रेरणं कृतम्, अथवा तद्वाञ्छा- गूहनयोरनुगुणं किमप्युपन्यस्तमिति जिज्ञासया प्रश्नः ॥ भावं जाणिअ अभिप्रायं ज्ञात्वा, गमनादपि तदीयनगरालोकनादिषु प्रीतिः, सा लज्जया निगूह्यत इति ज्ञात्वा अवलोकनकौतुकादिभिरिति शेषः । स- खीति नित्याभ्यस्ते पथ्यनतिदीर्घ एवमलसगमनां त्वां कथं नयामीति वात्सल्येन सम्बोधनम् । परिश्रान्तेव लक्ष्यसे, न त्वदुक्त्या, गमनमान्द्यादिना मया त्वत्प- रिश्रमोऽनुमीयते । अध्वगमनमेवात्र हेतुतया प्रकाशते | विश्रम एवात्र चिकि- त्सा । एतदिति परिश्रमस्य विश्रमस्थलस्य च यौगपद्यं दैवादापतितम् । भागी- रथीतीरगतमिति पावनत्वशीतलत्वादिना श्रमापनयनयोग्यतां, कार्तिकेयेत्यादिना देवायतनसान्निध्येनाशङ्कनीयगमनतां चारामस्य प्रकाशयति । तदास्थाविषयस्य १. 'ॲ' इति ख-ग. पाठः २. 'ए' इति क-ख-ग. पाठः, ३, 'य्या' इति खन्ग, पाठः.