पृष्ठम्:तपतीसंवरणम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । हि अज्ज तेळ्ळोक्के राएसिं संवरणं मोत्तूण इमाए अणुरूवो अण्णो त्ति । रम्भा - (क) मए वि एव्वं सुदपुरुवं एव्व । तदो तदो । १ - मेनका – (ख) तदो आरहिअ सा तग्गआहिळासा वि ळज्जाए अप्पआसेन्ती वट्टमाणा एअंदा मए सह तवणवणं पत्थि- आ । अन्तरा तस्स राएसिणो राअहाणिं णाअपुरं हेट्ठदो दट्ठूण ठिआ । को ह्यद्य त्रैलोक्ये राजर्षि संवरणं मुक्तास्या अनुरूपोऽन्य इति । (क) मयाप्येवं श्रुतपूर्वमेव । ततस्ततः । (ख) तत आरभ्य सा तद्गताभिलाषापि लज्जयाप्रकाशयन्ती वर्तमानैकदा मया सह तपनवनं प्रस्थिता । अन्तरा तस्य राजर्षे राजधानी नागपुरम् अधो दृष्ट्वा स्थिता । मग्रयं ध्वन्यते । त्रैलोक्य इति । त्रिलोकीतिलकत्वेन मानुषत्वेऽप्ययमेव ग्राह्य इति प्ररोचना ॥ एवं तस्याः प्रश्नावसरं दत्वा विश्रान्तवाक्यायां तस्यां रम्भा सिद्धमनूद्य शेषश्रवणौत्सुक्येन पृच्छति - मयापीत्यादि । स्वामिपारतन्त्र्येऽपि युष्मद्वृत्तान्ते दत्तमनसा लोकत इयन्मात्रं श्रुतं, शेषश्रवणे महदौत्सुक्यं, तत् कथय । ततस्तत इति वीप्सया श्रवणौत्सुक्यं ध्वन्यते । किं तया वरगुणश्रवणे निजयौवनोचितं किञ्चिदाचरितम्, उत मुग्धया किमपि नाङ्गीकृतं, त्वया किं व्यवसितमित्यादिजि- ज्ञासया प्रश्नः ॥ तदो आरहिअ नारदवचनादारभ्य तच्छ्रवणादारभ्येत्यर्थः । लज्जया वरनारीपरमालङ्कारभूतया । अप्रकाशयन्ती ममापीति शेषः । वर्त्तमानेति दिवा- निशं तथा वर्त्तनस्य दुष्करत्वं प्रकाश्यते । एकदेति खेदेन दूरतया च दिवस- विशेषो नाध्यवसितः । स्थितेत्यन्तमेकवाक्यम् । अस्मत्प्रयत्नं विना गूढभेदनं जातमिति दर्शयति – तस्येति । नारदमुखाच्छ्रुतस्य निरन्तरानुरागविषयस्य । अ- न्तरेति मध्येमार्गम् । प्रकृतं गमनं हृदयगूहनं च ममतानुसन्धानवशाद् विस्मृत्ये - त्यर्थः ॥ २. 'क' इति घ. पाठ: ३. 'दा' इति क, पाठः. १. 'भि' इति ख-घ. पाठ:. ४. 'उ' इति क-ख-ग. पाठः