पृष्ठम्:तपतीसंवरणम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ द्वितीयोऽङ्कः । (ततः प्रविशति रम्भा मेनका च ) रम्भा -- (क) सहि ! महिन्दसासणन्तरवावुदा एत्तिअं काळं अणभिण्णह्मि एत्थगअस्स वुत्तन्तस्स । ता कहेहि, को दे मुहवेवण्णस्स हेदू । कहिं वा पिअसही तवदी । मेनका --- (ख) सहि ! पुव्वं कदाइ पिअसहिं तवदिं उच्छङ्गे करिअ उपविट्ठेण को इमाए अणुरूवो वरो त्ति णारदमहे- सिणा पय्यणुउत्तेण भअवदा भाणुमाळिणा भणिअं - को (क) सखि ! महेन्द्रशासनान्तरव्या वृतैतावन्तं कालमनभिज्ञास्म्यत्रगतस्य वृत्ता- न्तस्य । तत् कथय, कस्ते मुखवैवर्ण्यस्य हेतुः । कुत्र वा प्रियसखी तपती । (ख) सखि! पूर्वे कदाचित् प्रियसखीं तपतीमुत्सङ्गे कृत्वोपविष्टेन कोऽस्या अनु- रूपो वर इति नारदमहर्षिणा पर्यनुयुक्तेन भगवता भानुमालिना भणितं-- अथेतरेतरालम्बनत्वेन नायकयो रतेः परिपोषे प्रतिपाद्ये नायिकाश्रयं प्रवेशकमुखेन सूचयितुं तत्सखीप्रवेशः । तत्र सहसा सखीमुखवैवर्ण्यदर्शनात् प्रथमं तद्धेतुप्रश्नः । पश्चात् स्वप्मेऽप्यजातविश्लेषायाः प्रियसख्या अदर्शनात् तद्वि- षयः प्रश्न उभयशेषतया कृतः ॥ C मेनकया पुनर्दुःखभारमसहमानया तत्संविभागयोग्या मेनां दृष्ट्वा सखीति स- म्बोधनेनास्मानुपेक्ष्य स्वकार्यप्रवृत्तायाश्चिरादागतायास्तव तटस्थवत् प्रश्नो न शो- भते । तथापि त्वामहं न वञ्चयामीति सपीठिकाबन्धमुत्तरमारभ्यते - पुव्वमि- त्यादि । पूर्वमित्यनेन कालदैर्घ्य, कदाचिदित्यनेना निर्द्धारित दिवस विशेषत्वं, वक्ष्यमा- णव्यसनानुभवस्य चिरानुवृत्तत्वं च प्रकाश्यते । उत्सङ्गे कृत्वेति । मया समपिव- र्त्तिन्या तत् सर्वं प्रत्यक्षीकृतमिति भावः । भानुमालिना पर्यनुयुक्तेन नारदमहर्षिणा भणितमित्यन्वयः । स्वसिद्धमपि प्रामाणिकमुखान्निश्चेतुं महान्तः पृच्छन्ति । तट- स्थस्यैव गुणदोषविचारे चातुर्ये परपरीक्षणे विशेषेण परापेक्षेति च नारदस्यैव व- क्तृत्वमुपपन्नम् । कोऽन्य इत्यनेन न विचारक्लेशविषयोऽयमर्थ इति तस्य गुणसा- १. 'उ' इति ख. पाठः. २. 'दं' इति घ. पाठः ३. 'ण. हि' इति मूलकोशेषु पाठः