पृष्ठम्:तपतीसंवरणम्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

राजा प्रथमोऽङ्कः । ह्णाणत्थं | अण्णं च कळ्ळम्मि मिअआवावारो । तत्थ अ- डवीअं दुळ्ळहं संपण्णं असणं । ता इट्ठपुट्ठं अह्निदव्वं । न केवलं भवदभिमतसिद्धिरेव । देवी चानुनेतव्या । त दभ्यन्तरमेव प्रविशावः । CHR ( इति निष्क्रान्ताः सर्वे ) इति प्रथमोऽङ्कः । च्च काल्पे मृगयाव्यापारः । तत्राटव्यां दुर्लभं सम्पन्नमशनम् । तदिष्ट- पुष्टमशितव्यम् । कर्तव्यान्तरमुद्बोधयति । काल्ये मृगयाव्यापारः श्वः प्रभाते । अनेनानन्तराङ्कोपक्रमं वस्तु सूचितम् | सम्पन्नं मृष्टम् । इष्टपुष्टम् इष्टं हृद्यं पुष्टं पूर्णम् ॥ न केवलमित्यादि । भवदभिमतसिद्धिरिति । मृष्टान्नादिलाभः । एतदेव न कर्त्तव्यं, देवी चानुनेतव्या । तदपि कर्तव्यान्तरमस्ति । इति अङ्कान्ते सर्वे निष्क्रान्ताः ॥ इति प्रथमोऽङ्कः । १. 'सुपु' इति क्र. ख. ग. पाठः.