पृष्ठम्:तपतीसंवरणम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे (नेपथ्ये वैतालिकौ ) प्रथमः— आरूढोऽयमवलग्नमम्बरस्यांशुमाली | तथा हि - अभिलषति न भृङ्गी पौष्पमुद्देलतप्तं मधु मधुपसपीतिप्राप्तपीयूषभावम् । अपितु तरणितापात् सङ्कुचद्भिः स्वगात्रै- राधिसहचरपक्षच्छायमालीयतेऽसौ ॥ १७ ॥ - द्वितीयः - न चरति मृगतृष्णावञ्चितः कृष्णसार: शिशिरमपि तृषार्त्तः सारसं सत्यतोयम् । द्युमणिकिरणजालैर्नूनमत्यर्थतप्तं परिमृशति न पौष्पं कार्मुकं पुष्पकेतुः ॥ १८ ॥ विदूषकः - जीवाविदह्नि वेदाळिएहिं । तुवरदु तुवरदु वअस्सो - (क) जीवितोऽस्मि वैतालिकाभ्यम् । त्वरतांत्वरतां वयस्यः स्नानार्थम् एवम् एकदिनप्रयोज्यस्येतिवृत्तस्यान्ते कालविशेषप्रकाशकत्वेन वैतालिको- क्तिश्चूलिकया प्रकाश्यते । तत्र द्वयोरेकस्योक्तिः – आरूढ इत्यादि । अवलग्नं मध्यम् । मध्याह्नः प्राप्त इत्यर्थः । कार्येण तदुपपादयति —— अभिलपतीत्यादि । भृङ्गी पौष्पं मधु नाभिलषति । किमहृद्यतया, नेत्याह- मधुपसपीतिप्राप्तपीयूषभावं मधुपेन निजकान्तेन सपीतिः सहपानं तेन प्राप्तामृतभावम् अपीत्यर्थसिद्धम् । तत्र हेतुमाह - उद्वेलतप्तमिति । भृशं तप्तम् उष्णं मध्याहातपेनेति सिद्धम् । अपि तु इतोऽन्यदपि कालकार्यत्वेन सैवानुसरति । असौ भृङ्गी तरणितापात् सङ्कुचद्भिः स्वावयवैः सह सहचरस्य पक्षच्छायायाम् आलीयते श्लिष्यति ॥ १७ ॥ अन्य आह—कृष्णसारः सारसं सत्यतोयं न चरति । सारसं सरःस- म्बन्धि | मिथ्याजलमपेक्ष्य सत्यशब्दः । शिशिरमपि तृषार्त्तोऽपीत्युभयत्रापिशब्दः । तत्र हेतुः मृगतृष्णावञ्चितः तत्रैव अमन् । पुष्पकेतुः पौष्पं कार्मुकं न परिमृशति आरोपणाय न परिमार्ष्टिं । द्युमणिकिरणजालैरत्यर्थतप्तं नूनमित्युपपत्त्या कल्पना । इति कार्यवर्णनेन कालः प्रकाशितः ॥ १८ ॥ तत एवाह त्वरतां वयस्यः स्नानार्थं मध्यान्दिनस्य प्राप्तत्वात् । अन्यच्च