पृष्ठम्:तपतीसंवरणम्.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अकुटिलविषमाभ्यां भ्रूलताभ्यामिदानी- मुपहितकुचकम्पैरश्रुसंरोधयत्नैः । प्रणयकुपितगर्भैर्मुग्धहासैर्मदीयं चकितयसि मुधैव त्वं चकोराक्षि ! चेतः । ॥ १६ ॥ चेटी' - (क) पसीददु पसीददु भट्टिणी | अणवरद्धो एव्व एत्थ - भट्टा । - देवी – (ख) हला! एव्वं एदं | अहं खु णियमकिळेसिअसरीरों अणीसह्नि उत्तरोत्तरकहाअं। ता अत्तणो आवासं गमिस्सं । (निष्क्रान्ती देवी सपरिवारा) राजा - कथं गतैव देवी । (क) प्रसीदतु प्रसीदतु भट्टिनी । अनपराद्ध एवात्र भर्त्ता । (ख) सखि! एवमेतत् । अहं खलु नियमक्लेशितशरीरा अनीशास्म्युत्तरोत्तर- कथायाम् । तद् आत्मन आवासं गमिष्यामि । "" अकुटिलाभ्यां कोपेनोर्ध्वं प्रेरिताभ्याम् ऋजूकृताभ्याम् अत एव विषमा भ्याम् अस्मत्पीडावहत्वाद् । अकुटिलस्य कथं विषमत्वमिति विरोधाभासः । तथाविधाभ्यां भ्रूलताभ्याम् । उपहितैः आविष्कृतैः श्वासप्रकोपकृतैः स्तनकल- शयोः कम्पैः । अश्रुसंरोधे कोपोदयस्य नयनपरिपूर्णस्याश्रुणः संरोधे पतने लाघव- शङ्कयां निरोधे यत्नैः मुखोन्नमनाङ्गुलिप्रेरणादिभिः प्रयत्लैः । प्रणयकुपितगर्भैः कुपितं कोपः प्रणयकोपमन्तर्न्निदधानैः । मुग्धहासैः नवनवोन्मेषैः स्मितैः । एतै- रन्यैश्च कोपकार्यैः इदानीन्तनैः पूर्वमनभ्यस्तकोपदर्शनं मदीयं चेतः त्वं चकित- यसि मुधैव । नात्र कोपहेतुः स्वल्पोऽपि शङ्कनीयः । चकोराक्षीति त्वद्रूपचातुर्य- दासीकृतोऽहं कथं तव कोपहेतुं सम्पादयामि । तन्मैवं कोपं कार्षीः ॥ १६ ॥ - इत्युक्तेऽप्यनुनयमनङ्गीकृत्य तस्यां गतायां सविषादमाह – कथं गतैव देवी, न त्वनुनयं गृहीतवतीत्येवकारेण द्योतितम् ॥ १. 'टी अ' इति घ. पाठः. २. 'दु अ' इति ग. पाठ:. ३. 'वी ए' इति घ. पाठः. ४. 'राण पारेमि उ' इति क. पाठः, ५. 'म्ता स' इति घ, पाठः, 'न्ता सपरिवारां 'देवी' इति तु क. ग. पाठः,