पृष्ठम्:तपतीसंवरणम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । विवेअरासिणा तुए वि दट्ठव्वो आसी। ता सिग्धं एहि । (राजानराकर्षति ) राजो-~~*(भ्रमपरिणामेनानेन भवितव्यम्) भवतु पश्यामस्तावत् ( उपसृत्य दृष्ट्वाँ सविलक्षं जनान्तिकम् ) कथमियं देवी संवृत्ता। सखे ! सो- ऽयमीदृशो भवच्चापलॅपरिणामः । the विदूषकः - (क) बुभुक्खातिमिरेण अन्धीकिदा मे दिट्ठी, जेण देविं दिव्वजणो त्ति सम्भावेमि । --- देवी – (ख) पारासरिअ ! अलं सङ्काए । णाहं सा, जिस्से सो क- ण्णऊरो, तं पाद्जुअळं वो । ग्रहीष्यामि । मूर्खेणैव मया दृष्टः स दिव्यजनो विवेकराशिना त्वयापि द्रष्टव्य आसीत् । तच्छीघ्रमेहि । (क) बुभुक्षातिमिरेणान्धीकृता मे दृष्टिः, येन देवीं दिव्यजन इति सम्भाव- यामि । -- (ख) पाराशर्य! अलं शङ्कया। नाहं सा, यस्याः स कर्णपूरः तत् पादयुगलं वा । सदर्पम् । तेन भ्रमस्य गाढत्वं प्रकाश्यते । अत एवाह- - मया दृष्ट इति । देवीदर्शने भ्रमेणोक्तिः । मूर्खस्यापि सतः प्रकाशनसामर्थ्ये पण्डितस्यापि तदनु- सरणमेव युक्तं, तत् ‘कथमन्विष्य दृश्यत' इति पूर्वोत्तमनादृत्येदानीं मत्प्रेरणया द्रष्टव्यो दिव्यजनः || भ्रमेति । अनेनैतदुद्यमेन भ्रमपरिणामेन अन्ते भ्रमरूपेण भवितव्यमि- त्येतच्चापलनिरूपणात् कल्प्यते । भवत्विति । अस्तु तथापि द्रक्ष्यामीति सादरणं वचनं, पक्षे प्रस्तुतं दिव्यजनम्, अथवा भ्रमाधिष्ठानं निरधिष्ठानस्य श्रमस्यायोगात् । सर्वथा किमपि द्रष्टव्यमिति द्रक्ष्यामीत्युक्तम् ॥ 6 'येन देवीं दिव्यजन इति सम्भावयामी'ति तस्य स्फुटोक्तिमनुसृत्य कोपेन कान्तसाम्मुख्यं परित्यज्य तं प्रत्याह-पारासरिअ ! इत्यादि । नाहं सा, दिव्यजन- १. वाक्यमिदं क-घयोर्नास्ति, २. 'जा प' इति क. पाठः. ३. 'ट्वा ज' इति ख. घ. पाठ:. ४. 'लस्य प' इति ख. पाठ:. ५. 'च' इति ख. पाठ:. 6

  • धनूरेखान्तर्गतमिदं वाक्यं व्याख्यानुसारान्निवेशितम् । मूलकोशेषु तु नैव पठ्यते ।

तु + 'द्रक्ष्यामि' इत्यर्थानवादो भवेत् । तथैव वा व्याख्यातुः पाठः.