पृष्ठम्:तपतीसंवरणम्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे विदूषकः— (गन्धग्रहणभभिनीय) (क) जह दक्खिणाए दिसाए बह- ळामोदमंसळो मारुओ वाहई, तह तक्केमि तर्हि तेण दि- व्वजणेण होदव्वं त्ति । ता दक्खिस्सं णं । ४ राजा - मूर्ख! प्रभावान्तर्हितमूत्तिः कथमन्विष्य दृश्यते दिव्य- - जनः । विदूषकः (ख) असम्भाविअतिरक्खरणीओ वि कदाइ चि- ट्ठदि त्ति मए सुदपुरुवं एव्व । ता घेत्तिस्स । (परिक्रम्याव- लोक्य च साटोपम्) मुक्खेण एव्वँ मए दिट्ठेि सो दिव्वजणो W (क) यथा दक्षिणस्या दिशो बहुलामोदमांसलो मारुतो वाति, तथा तर्कयामि तत्र तेन दिव्यजनेन भवितव्यमिति । तद् द्रक्ष्याम्येनम् । (ख) असम्भाविततिरस्करणीकोऽपि कदाचित् तिष्ठतीति मया श्रुतपूर्वमेव । तद गन्धग्रहणमभिनीयेत्यादि तस्या मानस्फुटीकरणाय तदनुनयेन नाय - कस्य दाक्षिण्यप्रकाशनायोपस्थिताया नायिकाया एतदवस्थया शङ्कानुबन्धाय च प्रतिपाद्यते । वाहइ वाति । तेन दिव्यजनेनेति । कस्याश्चिद् दिव्ययुवतरित्यनेन दिव्ययुवतिसान्निध्यस्योहनात् तत्सम्बन्धितया वतंसकस्य निश्चयात् तदानीं तत्प- तनस्य दृष्टत्वाद् झटिति दिव्यजन इत्यूहेन सिद्धवद् व्यवहारः ॥ नायकस्यापि तत्र हृदयसंवादः । प्रभावान्तर्हितमूर्त्तित्वादन्विष्य द्रष्टुम- शक्यमित्येव वैषम्यस्फुरणम् ॥ धयति --- नायकोक्तौ प्रवृत्तिनिषेधस्फुरणाद् उक्तस्यापवादकथनेन प्रवृत्तियोग्यतां सा- धयति- असम्भाविअ इत्यादि । अन्तर्हितमूर्त्तित्वं दर्शनाभावे हेतुः । तस्य न नियम:, असम्भाविततिरस्करणीकोऽपि कदाचित् तिष्ठतीति मया श्रुतम् । तद् ग्रहीप्यामि ज्ञास्यामि । पाक्षिकत्वेऽपि प्रयत्नार्हत्वादित्यौत्सुक्यजननायोक्तिः । साटोपं १. ‘ओ दिसाओ ब’ इति ख-घ, पाठ:. २. 'इ। तक्के' इति क-ग. पाठः ३. ‘ता तक्के’ इति ख. पाठ.. ४. इद घ. पुस्तके नास्ति. ५. 'दक्खिस्सं' इति क. पाठः. ६. 'स्सं एव्व अहं' इति क ख ग. पाठः. ७. 'व्व सो दिठ्ठी दिव्व' इति क. पाठः, ८. 'एसो दिशे दिव्व' इति पाठ ९ 'दि',