पृष्ठम्:तपतीसंवरणम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । १५ णवकस्य वचनम् । तथा हि अनालक्षितलक्षा कापि रण- रणिका स्पृशतीव मदीयं चेतः । (प्रकाशम्) सखे ! अलम- न्यथा सम्भाव्य । आक्षिप्तोऽस्मि केवलं विस्मयेन । चेटी - (क) भट्टिणि ! किं सुदं । - देवी — (ख) उज्जुआ खु तुवं । ण एआरिसा गहीरहिअआ हिअ अं पआसेन्ति । (क) भट्टिनि ! किं श्रुतम् । (ख) ऋज्वी खलु त्वम् । नैतादृशा गभीरहृदया हृदयं प्रकाशयन्ति । अतिनिगूढस्य प्रकाशकरणेन अहोतुखल्वित्युक्तिः । मदीयामवस्थाम् अन्तः करणव्यापिनीम् । अनुकरोति संवदति । अनुकरणं मनोवृत्तितुल्यत्वेनावस्थाप्रका- शनम् | माणवकस्येति वराकस्याप्येतदुन्नयने कथं पाण्डित्यमिति विस्मयः । तथा हीति उक्तस्य स्फुटीकरणम् । एतदुक्त्यनुरूपैव मदीयावस्था । अनालक्षितलक्षा अटू- •ष्टविषया । विषयस्यात्यन्ताभावे कार्योदयानुपपत्त्या अनालक्षितेत्युक्तम् । कापिति विषयस्यानिर्णयादनेनेदमिति वक्तुमशक्या । रणरणिका विषयाभिषङ्गोन्मुखः सम्भ्रमः । मदीयं चेतः कर्म । स्पृशतीवेति विषयानिश्चयेन भीत्या व्यवहारः । तथापि सहसा न प्रकाशयामीति निरूप्य तत्प्रतीतिं निरुणद्धि – सखे ! इति। • कथमिदानीं तवान्यथाप्रतीतिर्जाता । अन्यथा वस्तुवृत्तादन्यप्रकारेण मा निरूपय । तर्हि सर्वथा न विकार इति चेत् तत्राह - केवलं विस्मयेन आक्षिप्तोऽस्मि, - • विस्मयनीयवस्तुदर्शनेन केवलं चित्तव्याक्षेपः, न त्वया शङ्कितेन हेतुनेति केवल शब्दाभिप्रायः ॥ किं श्रुतमिति । मयोक्तं सत्यमेव एतद्वचनेन निश्चयः कार्य इति । तच्छ- ङ्कां परित्यजेत्यर्थः ॥ तद्वचनमाक्षिप्याह–उज्जुआ इत्यादि । ऋज्वी अवक्रहृदया लघुधीरित्यर्थः ।

नैतदेवमिति शेषः । तत्र हेतुः एतादृशा महान्तः अपरिच्छेद्यहृदया: । हृदयंगतं

न प्रकाशयन्ति हृदयगतमाच्छाद्यान्यथा वदन्ति । अतो वचनमात्रेण न शङ्का- पगम इत्यनेन प्रणयकोपस्य किञ्चिदुन्मेषः प्रकाश्यते ॥ १. 'वं । ए' इति ख. पाठः. २. 'आ अत्तणो अभिणवं चापलं ण प ' इति ख. पाठ..