पृष्ठम्:तपतीसंवरणम्.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसवरणे दिमेत्तं वित्थारेदि । तुए वि पञ्चसेहि अक्सरेहि महन्तो गन्थसन्दब्भो रइओ। अलं एदिणा, अण्णं किं पि रहस्सं पुच्छिस्सं । पददंसणादो आरहिअ अण्णादिसो विअ दे आआरो । अत्थि वो वम्महस्स वि एत्थ अवसरो । २ देवी- --(क) हळा ! मम वि एसो संसओ । चेटी. --(ख) भट्टिणि ! भट्टिणो उत्तरं सुणिअ णिण्णअं करह्म । राजा --- (आत्मगत) 'अहोतुखलु मदीयामवस्थामनुकरोति मा- पञ्चषैरक्षरैर्महान् ग्रन्थसन्दर्भो रचितः । अलमेतेन, अन्यत् किमपि रहस्यं प्रक्ष्यामि । पददर्शनादारभ्यान्यादृश इव ते आकारः । अस्ति वा मन्मथ- । स्याप्यत्रावसरः । (क) सखि ! ममाप्येष संशयः । (ख) भट्टिनि ! भर्त्तुरुत्तरं श्रुत्वा निर्णयं कुर्वः । प्रति कामिन्या निजाभिलाषवैवश्यं प्रकाश्यते । मेघसाम्येन सर्वोपकारदीक्षितत्वम् । चातकवधूसाम्येनानन्यशरणत्वं तरुण्याः प्रकाश्यते ॥ १५ ॥ पददंसणादो इत्यादि । इतः पूर्वमदृष्टत्वात् पददर्शनादारभ्य स्वेदरोमा- ञ्चादिविकारदर्शनादाकारस्यान्यादृशत्वं लक्ष्यते । अत्रावस्थान्तरे । मन्मथस्यापि, अपत्यलाभं प्रत्यौत्सुक्यं पूर्वमनुबद्धं, तत्र पदवतंसकमात्रमवलम्ब्य मन्मथवि- कारस्यापि । अवसरः प्रसरोऽस्ति किम् । पदवतंसकवर्णनं भवदाकारं च निरीक्ष्य मया शङ्कयते ॥ तदानीं नायिका स्वहृदयसंवादि तद्वचनमाकर्ण्य निगूढामात्मशङ्कां तां बोधयति – ममाप्येष संशय इति ॥ एतद्वचनेन निश्चेतुं न शक्यं, महाराजस्योत्तरं श्रुत्वा निश्चिनुव इति तस्याः शङ्कोदयस्य मार्गरोधनं प्रति निर्बन्धः ॥ मदीयामवस्थामिति । सङ्कल्पकल्पितां कामिनीं प्रत्यङ्कुरितस्य गुणवर्णना- दिभिः क्रमेणोन्मीलितस्य रतिभावस्यावलम्बनात् तदानुक्कूल्येन तस्य प्रश्नवचनाद् १. ' वा एत्थ वम्महस्स वि अ' इति क-ग. पाठ:. २. इदं ख. पुस्तके नास्ति. † आचर्येऽयं निपातसमुदायो नुशन्दमध्य एव ग्रन्थान्तरेषु पठ्यते,