पृष्ठम्:तपतीसंवरणम्.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमाऽङ्कः । विदूषकः --- (क) पञ्चेमि भवदो मदिकोसळं, जइ णहेहि लिहि- अ तं पूरेसि । ( राजा कर्णपूरमादाय तथा कृत्वा ददाति) विदूषकः -- (पुनर्वाचयति) (ख) किं कुणइ चादअवहू सन्दसिणेहा वि मेहपअरम्मि । सुहिआ तिस्से ट्ठिी पुण्णा आणन्दबाहेण ॥ १५ ॥ (FT) भो आखू विअ तुवं । सो खु अप्पं पि छिद्दं अ- (क) प्रत्येमि भवतो मतिकौशलं, यदि नखैलिखित्वा तां पूरयसि । (ख) किं करोति चातकवधूः सान्द्रस्नेहापि मेघप्रवरे सुखिता तस्या दृष्टिः पूर्णानन्दबाष्पेण || (ग) भो आखुरिव त्वम् । स खल्वल्पमपि च्छिद्रमतिमात्रं विस्तारयति । त्वयापि किं कुणइ इत्यादि । किं करोति चातकवधूः सान्द्रस्नेहापि मेघप्रवरे | सुखिता तस्या दृष्टिः पूर्णानन्दबाष्पेण ॥ किंशब्दः क्षेपे । न खलु निजस्नेहसान्द्रतानुगुणं सलिलादानादिषु प्रवर्त्तते, तद्गौर - वेण तूष्णीमास्त एवेत्यर्थः । अत एवोक्तं प्रवर इति । तर्हि किमस्याः सद्यःफलि- तमित्यत्राह –सुखितेति । अत्र वाच्यनिहवेन कुलपालिका भिन्नलोकस्थमपि पुरुष- वरं दृष्ट्वा समुचितां स्वपक्षपातप्रेमदशामधिरोहणयोग्याम् अवश्यमङ्गीकुर्वाणा विप्रयोज्योपावर्त्तनादिषु स्वयमन्यमुखेन वा न यतते, शीलेन शालीनतयापाटवेन तत्कारुण्या निर्णयेन च तूष्णीमास्ते । तर्हि किमरण्यरुदितप्रायेणानुरागणेति चेद्, अस्ति महज्जन्मसाफल्यं नयनयोः । सुकुमारसुन्दरपरिपूर्णलक्षणरूपसाक्षात्कारेण सुखिता । कथं सुखं ज्ञायते, आनन्दजनितेन बाष्पेण पूर्णा । आत्मनस्तु सक- लेन्द्रिय प्रवृत्तिजनक विषयलाभ एव परमानन्दलाभ इति दृष्टिः सुखितेत्यनेन व्य- ज्यते । एवं स्थितेऽवस्थानिवेदनादृते न किञ्चिदनया मुग्धया कर्त्तव्यम् । स एव विशेषज्ञः समुचितं विधास्यति अत्र मेघप्रवरचातकवधूव्यपदेशेन मनोरथदयितं 'होदो' इति ग. पाठ:. २. पदमिदं घ. पुस्तके नास्ति, ४. 'वि' इति घ. पाठ: १. ‘भोदो' इति घ. पाठः, ३. 'व' इति क. पाठ: