पृष्ठम्:तपतीसंवरणम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे इच्छामि । तुमं एव्व तिस्से अपङ्गसरस्स लक्खो । को अण्णो ऐत्थ माणुसलोए दिव्वकण्णआजणप्पत्थर्णाओ । देवी – (क) हला ! किं सुदो माणवअस्स उवण्णासो । - चेटी – (ख) आम सुदो । को उण एदिणा महाराअस्स अवराहो । देवी – (ग) का वा मन्तेदि सो अवरज्झो त्ति । - विदूषकः – (सावधानं कर्णपूरमवलोक्य) (घ) भो वअस्स ! अच्छेरं अ- च्छेरं । एत्थ किं पि सत्थं आलिहिदं । राजा -- • (सस्मितम्) तर्हि वाच्यतां शास्त्रम् । विदूषकः – (वाचयति) (ङ) किकुचासविमेसुतिदिपुआ । कहं पि वाइदाइ अक्खराइ । अत्थं पुण जाणिदुं अकुसलह्मि । ता कहेढु अत्तभवं । राजा - ( सविमर्शम्) शङ्के मदनसन्देशपराया गाथायाः पदाद्य- क्षराण्येतानीति । लक्ष्यः । कोऽन्योऽत्र मानुषलोके दिव्यकन्यकाजनप्रार्थनीयः । (क) सखि ! किं श्रुतो माणवकस्योपन्यासः । (ख) आम श्रुतः । कः पुनरेतेन महाराजस्यापराधः । (ग) का वा मन्त्रयते सोऽपराद्ध इति । (घ) भो वयस्य ! आश्चर्यमाश्चर्यम् । अत्र किमपि शास्त्रमालिखितम् । (ङ) कथमपि वाचितान्यक्षराणि । अर्थं पुनर्ज्ञातुमकुशलोऽस्मि । तत् कथयत्वत्र- भवान् । उपन्यासः अनिष्टप्रमेयप्रस्तावः । श्रुत इति काकुगर्भं वचनम् । माणवक इति सासूयमुक्तिः ॥ १. 'अज्ज मा' इति क. ख. ग. पाठः. २. 'अं' इति ग. पाठः