पृष्ठम्:तपतीसंवरणम्.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । अपाङ्गपातैरनुरागगर्भैरावल्गितचलतमापिबन्त्याः । रोमाञ्चसम्भेदसखेषु सोऽयमङ्गेष्वनङप्रथमावतारः ॥ १४ ॥ विदूषकः - (क) भो अप्पण्णो 'वि अहं एत्थ किं पि उप्पेक्खिढुं - 19 (क) भो अल्पज्ञोऽप्यहमत्र किमप्युत्प्रेक्षितुमिच्छामि । त्वमेव तस्या अपाङ्गशरस्य रूप्यमाणे प्रथममस्य जन्मैव श्लाघ्यम् । किं पुनश्चरितम् । अनेकजन्मस्वेकफलो- द्देशेन समार्जितविविधपुण्यफलानुभवाय प्रादुर्भूतत्वाद् अहो महापुरुषस्य जन्म लोको- त्तरम् । अन्येषामुचितफलाभावेन नातिहृद्यमिति रसिकैः श्लाघ्यजन्मानम् । कञ्चिद् अन्वेषणे दुर्लभत्वात् सहसा न बुद्ध्युपारूढं कामपि जातिं देशं चालङ्कु- र्वाणम् अनिर्देश्यमहिमानम् । युवानं प्रत्ययौवनम् इति निर्देक्ष्यमाणकटाक्षकर्म- तया कल्प्यते । किञ्चास्यैव यौवनं सफलम् । अपाङ्गपातैः विषयबाहुल्येन तत्र तत्र पुनः पुनः वैवश्यमन्थरं पतितैरपाङ्गैः । अनुरागगर्भैः रागस्य भोगोन्मुखत्खमनु- रागः, ‘अनुरागेण भुज्यत' इत्युक्तत्वात् तेन सुभगभोग्यलाभेनान्तःकरणमापूर्य नयनमार्गेण निर्गत्य तद्रश्मीनवलम्ब्य भोग्यं प्रति प्रेरकेण सम्मिलितैः । तेन पाने अलम्भावानुदयः प्रकाश्यते । आवल्गितभ्रूलतं सहचरनयनमहोत्सवानुगुणमी- •षल्लसितलास्यचतुरचिल्लीवल्लीकम् । पानक्रियाविशेषणमेतत् । आपिबन्त्याः आ समन्ताद् आपादचूडमभिव्याप्य भृशं पिबन्त्याः आस्वादयन्त्याः । अत एव यूनः कर्मत्वं, नैकदेशस्य मुखादेः । चक्षुरादीनां रूपादिग्रहणाद् रसनाया रसग्रहणे हृद्यताप्रकर्ष इत्यन्येषां विषयग्रहणे प्रकर्षकथनाय पानक्रियोपचार इति दर्शने पानमुपचर्यते । रोमाञ्चसम्भेदस्य पानदशासमुल्लसितस्य स्वयमवकाशदाने- नानुकूलेषु, इदमेव हि सख्यम् । अङ्गेषु न क्वचिदवयवे, कपोलादिपदतलान्तेषु । सः त्वया मार्गपरिश्रमनिमित्तत्वेनोक्तः स्वेदप्रसरः । अयम् अनङ्गप्रथमावतारः दर्शनजनितस्य मदनावेशस्य प्रथमप्रादुर्भावः । स्वेदादीनां मदनावेश कार्यत्वात् । अनङ्गशब्देन तत्कार्ये लक्ष्यते नियतकारणत्वबोधनाय । प्रथमशब्देन दर्शनस्य तत्कृतस्य मदनावेशस्य तत्कार्यस्य स्वेदादेश्च नूतनत्वेन हृद्यत्वं गम्यते । रोमाञ्च स्यापि युगपदेकाश्रयत्वकथनेनानङ्गकार्यत्वमनुक्तसिद्धम् । प्रस्तावात् स्वेदस्य विशे- • षकथनम् । कञ्चित् सप्रेमावलोकयन्त्याः पदवतंसकस्वामिन्याः मदनावेशजनितोऽयं स्वेदोद्गम इति मया सम्भाव्यते । अतः पूर्वोक्तं घटत इति तात्पर्यम् ॥ १४ ॥ १. 'खुं' इति घ. पाठः