पृष्ठम्:तपतीसंवरणम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

% विदूषकः - (क) को एत्थ हेदू । -- राजा -- यतः पवतंसकयोरालक्ष्यन्ते धर्मसलिलबिन्दवः । देवी - (ख) हळा! पअकहा वि एत्थ आपडिआ । चेटी - (ग) भट्टिणि ! किं वा एदिणा । - - तपतीसंवरणे विदूषक: - (घ)

- (घ) भो समाणे वि समीरपहगमणपरिस्समे कहं

एक्काए च्चिअ समजळं उब्भिण्णं । राजा - न खलु मार्गश्रमजनितैरोभिर्भवितव्यम् । श्लाघ्यज- न्मानं कश्चिद् युवानम् --- (क) कोऽत्र हेतुः । (ख) सखि ! पदकथाप्यत्रापतिता । (ग) भट्टिनि! किं वैतेन । (घ) भोः समानेऽपि समीरपथगमनपरिश्रमे कथमेकस्या एव श्रमजलमुद्भिन्नम् । कोऽत्र हेतुरिति । तत्सम्बन्धित्वे को हेतुः । पदे संस्थानादिदृश्यो भेदः । अनेकाश्रयत्वज्ञापको हेतुः कथ्यतां, न प्रतिज्ञामात्रेण संवदामि || पदकथापि पदवृत्तान्तोऽपि । पूर्वस्यैव शङ्काहेतुत्वे अन्यदपि गण्डोपरि पिटकायमानमाविर्भूतमित्यर्थः ॥ किं एदिणा इति । अनेन पूर्वस्माद् विशेषो न सिद्धः । तन्नात्र वैमनस्यं कार्यमिति शेषः । समानेऽपीति । घर्मजलबिन्दोरसाधारणत्वं न घटते । दिव्ययुवतित्वाङ्गी- कारात् समीरपथगमनं तेन परिश्रमश्च युज्यते । श्रमजलमेकस्या एवेति कथं घटते । अत्र प्रभुत्वं नानुसरामि । श्रमजले श्रमस्य हेतुत्वं नियतम् । तस्येहाध्वगमनं परिस्फुटो हेतुः । तदुभयोः साधारणं कार्यम् एकस्या इति न चतुरश्रम् ॥ अन्यथा श्रमस्यासाधारणं हेत्वन्तरं वक्तव्यमित्यत्राह-न खल्विति । मार्गश्रमो नात्र निमित्तम् | तस्य साधारणत्वम् । लोकोत्तरमसाधारणं निमित्तान्तरं कल्प्यते । किं तदित्याह -श्लाध्येत्यादि । कञ्चिद् युवानं श्लाध्यजन्मानम् । जन्मफले नि- १. पदमिदं क-ख-गेषु नास्ति २. इदं ख-गयोर्नास्ति. ---