पृष्ठम्:तपतीसंवरणम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । २९ देवी - (क) हळा! एसो मन्दारकण्णउरवुत्तन्तो अदिमेत्तं मं २ संकावेदि । चेटी – (ख) भट्टिणि एत्तिएण ण णिण्णओ । अवहिदाओ सुणह्म । विदूषकः - (ग) भो मम खु सिद्धन्तो उअळिहिअं विअ अ- क्खरं सुण्णपरिणामं होदि । (कर्णपूरमादाय) किस्से अअं कण्णउरो त्ति एदं पि किं जाणिदुं पारेसि । --- राजा – (अगुल्या निर्दिशन्) यस्या इयं पदपद्धतिः, मन्ये तदी- यामेवावतंसकभुर्वेमसावलङ्कृतवानिति । (क) सखि ! एष मन्दारकर्णपूरवृत्तान्तोऽतिमात्रं मां शङ्कयति । (ख) भट्टिनि ! एतावता न निर्णयः । अवहिते शृणुवः । (ग) भोः मम खलु सिद्धान्त उदकलिखितमिवाक्षरं शून्यपरिणामं भवति । कस्या अयं कर्णपूर इत्येतदपि किं ज्ञातुं पारयसि । इत्थं नायकस्य सादरं वचनमाकर्ण्य नायिका मानग्रहस्य बीजावापं क- - रोति – एसो इत्यादि । मन्दारकर्णपूरवृत्तान्तः कस्याश्चिदित्यारभ्य बहुप्रकारं सा- राभिनिवेशं वर्णितः । वृत्तान्तशब्देन वर्णनीयस्य बहुत्वेन मनसस्तत्राभिरुचिर्व्य- ज्यते । अत एवातिमात्रमित्युक्तम् । माम् इतः पूर्वमदृष्टप्रियतमापचाराम् । अतिमा- त्रमिति इमं द्वारीकृत्य वनितान्तरान्वेषणं तल्लिप्सया वैवश्यमित्यादिबहुविधमनिष्ट- माच्छाद्यातिमात्रमित्युक्तम् । शङ्कयति वितर्कयति । गोपनाय विषयानिर्देशः ॥ । आच्छादितं ज्ञात्वा चेटी संरम्भावकाशं निरस्याह - इयता न निर्णयः । अन्यानुरागं प्रतीतिशेषः । पुनरपि वस्तुनिश्चयावधि शृणुवः, नान्तरा वैमनस्यं कार्यमिति भावः ॥ एतदपीति । पदयुगलविभागज्ञानवदित्यपिशब्दार्थः ॥ इयं पदपद्धतिः इयं पूर्वं दृष्टा । (पद) पद्धतिः पदप्रतिबिम्बम् । अवतं- सकभुवं कर्णपाशम् ॥ १. 'संदावे' इति क. पाठः, २. 'इ' इति ग घ. पाठः. ३. 'श्य) इति घ. पाठ:. ४. पद्ध' इति घ. पाठः. ५- 'वमल' इति घ. पाठ:.